Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२३३॥
वज्रजङ्घमथोवाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्र गत्वाऽऽवां प्रेक्षितुं रामलक्ष्मणौ ॥ ७३ ॥ प्रतिपद्य स तद्वाचमङ्कुशं पर्यणाययत् । महोत्सवेन पृथुराट्पुत्र्या कनकमालया ॥ ७४ ॥ वज्रजङ्घपृथुभ्यां तावन्वितौ लवणाङ्कुशौ । साधयन्तौ बहून् देशान् लोकाख्यपुरमीयतुः ।। ७५ ।। युद्धभूमौ च तद्भूपं धैर्यशौण्डीर्यशालिनम् । कुबेरकान्तनामानं तत्र मानिनं जिग्यतुः ।। ७६ ।। लम्पाकेष्वेककर्णाख्यं विजिग्याते नृपं च तौ । ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥ ७७ ॥ गङ्गामुत्तीर्य कैलासस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूणां देशानां चक्रतुर्जयम् ॥ ७८ ॥ रेषकुन्तलकालाम्बुनन्दिनन्दनसिंहलान् । शलभाननलाञ्छूलान् भीमान् भूतरवादिकान् ॥ ७९ ॥ तौ जयन्तौ नृपान् सिंधोः परकूलमुपेयतुः । तत्र चाऽऽर्याननार्यांश्च साधयामासतुर्नृपान् ॥ ८० ॥ ॥ युग्मम् ॥ बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । निवृत्योपेयतुस्तौ तत्पुण्डरीकपुरं पुरम् ॥ ८१ ॥ अहो ! धन्यो वज्रजज्ञे यदीयौ यामिनन्दनौ । ईदृशाविति जल्पद्भिर्वीक्ष्यमाणौ पुरीजनैः ।। ८२ ॥ जग्मतुः स्वगृहं भूपवीरैः समावृतौ । प्रणेमतुश्च जानक्याश्चरणौ विश्वपावनौ ।। ८३ ।।
॥ युग्मम् ॥
चुचुम्ब मूर्ध्नि तौ सीता स्नपयन्ती मुदश्रुभिः । रामलक्ष्मणयोस्तुल्यौ भूयास्तमिति चाऽवदत् ॥ ८४ ॥ ऊचतुर्वज्रजङ्घ तौ मातुल ! प्राक् त्वयाऽऽवयोः । मेने यानमयोध्यायामिदानीमनुतिष्ठ तत् ॥ ८५ ॥ आज्ञाप्यन्तां च लम्पाकरुषकालाम्बुकुन्तलाः । शलभानलशूलाद्याश्चाऽपरेऽपि महीभुजः ॥ ८६ ॥ १ लम्पाकदेशेषु । ३ देशनामान्येतानि । ३ भगिनीपुत्रौ ।
सप्तमं पर्व
नवमः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
रामपुत्रकृतदेशविजयः ।
।। २३३ ।।

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324