Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 321
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२७४॥ भूपालैः पाल्यमानाज्ञो भरते सकलेऽपि ह । धर्माविबाधया भोगान् बुभुजे स महाभुजः ।। २८ ।। भवाद्विरक्तः सोऽन्येधू राज्यमुत्सृज्य लीलया । उपादत्त परिव्रज्यां शिवव्रज्योत्सवोत्सुकः ।। २९ ।। हरिषेणस्य कौमारे सपादाब्दशतत्रयी । मण्डलित्वेऽपि सैवाऽथ सार्धमब्दशतं जये ।। ३० ।। चक्रभृत्त्वे पुनरष्टी सहस्राणि शताष्टकम् । पञ्चाशच्च व्रतकाले पुनः सार्धं शतत्रयम् ।।३१ ।। वर्षायुतायुः परिपाल्य सम्यक् तीव्र व्रतं घातितघातिकर्मा । उत्केवलज्ञान इयाय नित्यसुखं पदं तद्धरिषेणचक्री ।। ३२ ।। सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रि चरितम् । हरिषेणचक्रे: निर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि हरिषेणचक्रवर्तिचरितवर्णनो नाम द्वादशः सर्गः। ।।२७४ ।। १शिवं मोक्षं प्रति व्रज्या गमनं तस्योत्सव उत्सुकः ।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324