Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 281
________________ त्रिषष्टिशलाकापुरुषचरित I२३४॥ सप्तमं पर्व नवमः | सर्गः रामलक्ष्मणरावणचरितम् । प्रयाणभम्भा वाद्यन्तां छाद्यन्तां च दिशो बलैः । त्यक्ता येनाऽऽवयोर्माता वीक्ष्यस्तस्याऽद्य विक्रमः ॥ ८७ ॥ सीताऽपि सद्यो रुदती जगादैवं सगद्गदम् । वत्सौ ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? ॥ ८८ ॥ वीरौ पितृपितृव्यौ वां दुर्जयौ धुसदामपि । यकाभ्यां निहतो रक्षःपतिस्त्रैलोक्यकण्टकः ।। ८९ ।। उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ ! । विनीतीभूय तद्यातं पूज्ये हि विनयोऽर्हति ।।९० ॥ ततस्तावेवमूचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥९१ ।। पुत्रौ तवाऽऽवामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यावस्तस्याऽपि हीकरं वचः ? ॥९२ ।। आनन्दजनकं तस्य जनकस्याऽपि दोष्मतः । युद्धाह्वानं युज्यते तु कुलद्वययशस्करम् ।। ९३ ।। अभिधायेति सीतायां रुदन्त्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरी प्रति ।। ९४ ।। कुठारकुद्दालभृतां सहस्राणि नृणां दश । तयोः पथ्यच्छिदन वृक्षादिकं मां च समां व्यधुः ।।९५ ।। क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावूषतुरुपायोध्यं योद्धुकामौ महाभुजौ ॥ ९६ ।। विरुद्धं तद्बलं भूरि श्रुत्वाऽऽयातं पुरो बहिः । उभौ विसिष्मियाते च सिष्मियाते च राघवौ ।। ९७ ।। अथेत्थमूचे सौमित्रिः परे केऽमी पतङ्गवत् । मर्तुकामाः समापेतुरार्यविक्रमपावकम् ? ॥९८ ।। इत्युक्त्वा सह रामेण सुग्रीवादिभिरावृतः । युद्धे चचाल सौमित्रिरमित्रध्वान्तभास्करः ।। ९९ ।। इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीतामुपेयाय ससम्भ्रमः ।। १०० ॥ तस्याऽऽख्यद्रुदती सीता रामो मां भ्रातरत्यजत् । मत्त्यागमसहिष्णू च त्वद्यामेयौ युधे गतौ ।। १०१ ।। १ शत्रुस्थानप्राप्ते । २ आर्यस्य रामस्य विक्रम एव पावकोऽग्निस्तम् । ३ त्वद्भगिनीपुत्रौ । रामपुत्रकृत देशविजयः, तयोरयोध्यायामागमनम् । ॥२३४ ।।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324