________________
त्रिषष्टिशलाकापुरुषचरित I२३४॥
सप्तमं पर्व नवमः | सर्गः
रामलक्ष्मणरावणचरितम् ।
प्रयाणभम्भा वाद्यन्तां छाद्यन्तां च दिशो बलैः । त्यक्ता येनाऽऽवयोर्माता वीक्ष्यस्तस्याऽद्य विक्रमः ॥ ८७ ॥ सीताऽपि सद्यो रुदती जगादैवं सगद्गदम् । वत्सौ ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? ॥ ८८ ॥ वीरौ पितृपितृव्यौ वां दुर्जयौ धुसदामपि । यकाभ्यां निहतो रक्षःपतिस्त्रैलोक्यकण्टकः ।। ८९ ।। उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ ! । विनीतीभूय तद्यातं पूज्ये हि विनयोऽर्हति ।।९० ॥ ततस्तावेवमूचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥९१ ।। पुत्रौ तवाऽऽवामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यावस्तस्याऽपि हीकरं वचः ? ॥९२ ।। आनन्दजनकं तस्य जनकस्याऽपि दोष्मतः । युद्धाह्वानं युज्यते तु कुलद्वययशस्करम् ।। ९३ ।। अभिधायेति सीतायां रुदन्त्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरी प्रति ।। ९४ ।। कुठारकुद्दालभृतां सहस्राणि नृणां दश । तयोः पथ्यच्छिदन वृक्षादिकं मां च समां व्यधुः ।।९५ ।। क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावूषतुरुपायोध्यं योद्धुकामौ महाभुजौ ॥ ९६ ।। विरुद्धं तद्बलं भूरि श्रुत्वाऽऽयातं पुरो बहिः । उभौ विसिष्मियाते च सिष्मियाते च राघवौ ।। ९७ ।। अथेत्थमूचे सौमित्रिः परे केऽमी पतङ्गवत् । मर्तुकामाः समापेतुरार्यविक्रमपावकम् ? ॥९८ ।। इत्युक्त्वा सह रामेण सुग्रीवादिभिरावृतः । युद्धे चचाल सौमित्रिरमित्रध्वान्तभास्करः ।। ९९ ।। इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीतामुपेयाय ससम्भ्रमः ।। १०० ॥ तस्याऽऽख्यद्रुदती सीता रामो मां भ्रातरत्यजत् । मत्त्यागमसहिष्णू च त्वद्यामेयौ युधे गतौ ।। १०१ ।। १ शत्रुस्थानप्राप्ते । २ आर्यस्य रामस्य विक्रम एव पावकोऽग्निस्तम् । ३ त्वद्भगिनीपुत्रौ ।
रामपुत्रकृत
देशविजयः,
तयोरयोध्यायामागमनम् ।
॥२३४ ।।