________________
त्रिषष्टिशलाकापुरुषचरिते ||२३५॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
भामण्डलोऽप्युवाचैवं त्वत्त्यागं रभसावशात् । चक्रे रामो द्वितीयं तु मा कार्षीत्पुत्रयोर्वधम् ।। १०२ ।। आत्मजौ तावजानानौ न यावद्धन्ति राघवः । उत्तिष्ठ तावद्गच्छावस्तत्राऽऽवामविलम्बितम् ।। १०३ ॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । लवणाङ्कुशयोः स्कन्धावारे भामण्डलो ययौ ।। १०४ ।। तौ नमश्चक्रतुः सीता कुमारौ लवणाङ्कशौ । मातुलोऽयमिति सीताख्यातं भामण्डलं तथा ।।१०५ ।। स तौ शिरसि चुम्बित्वा स्वोत्सङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यूचे गद्गदाक्षरम् ।। १०६ ।। वीरपत्नी पुराऽप्यासीद् दिष्ट्या सम्प्रति वीरसूः । अभूधुवाभ्यां मे यामिर्यामिनीजानिनिर्मला ।। १०७ ॥ वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पितृपितृव्याभ्यां मा कृषाथां तथाऽपि हि ।।१०८ ॥ न रणे रावणोऽप्यासीद्ययोर्मल्लस्तयोः कथम् । युद्धं युवाभ्यामारेभे दोःकण्डूरभसावशात् ? ।। १०९ ।। तावूचतुर्मातुलाऽलं स्नेहभीरुतयाऽनया । त्वत्स्वसाऽप्यस्मदम्बेयमूचेऽदः कातरं वचः ॥११० ॥ आवामपि हि विद्वो यन्न मल्लः कोऽपि तातयोः । युद्धं त्यक्त्वा तयोरेवोत्पादयावः कथं ह्रियम् ? ||१११ ।। तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रववृते युद्धं संवर्तावर्तदर्शकम् ॥११२ ।। सुग्रीवाद्यैः खेचरैर्माऽनयोः सैन्यं महीचरम् । हन्यतामिति साशको ययौ भामण्डलो युधि ।। ११३ ॥ उत्तस्थाते कुमारावयाहवाय महाबलौ । उच्छ्वास्यमानवर्माणौ रोमाञ्चेनाऽतिशायिना ।। ११४ ।। निःशकं युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छुः काविमाविति ॥ ११५ ॥ भामण्डलाच्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रुघ्षदंश्च पुरो भुवि ।। ११६ ।। १ वीरं सूते इति वीरसूर्वीरमातेत्यर्थः । २ यामिनी रात्रिर्जाया यस्य स चन्द्रस्तद्वन्निर्मला ।
लवणाकुशयोः रामलक्ष्मणा
भ्यां सह
युद्धम् ।
॥२३५ ।।