________________
त्रिषष्टिशलाकापुरुषचरिते ||२३६॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
इतश्च तौ क्षणेनाऽपि दोष्मन्तौ लवणाङ्कुशौ । रामसैन्यं दुधुवतुः क्षयोद्धान्ताब्धिदुर्धरौ ।। ११७ ॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोद्धतौ । रथी सादी निषादी वा न तत्राऽस्थाद् धृतायुद्धः ।। ११८ ॥ हतविद्रुतमेवं च रामसैन्यं विधाय तौ । केनाऽप्यस्खलितौ रामं सौमित्रिं चेयतुर्युधि ।। ११९ ।। तौ प्रेक्ष्य रामसौमित्री एवमन्योऽन्यमूचतुः । कावप्येतावभिरामौ कुमारौ विद्विषौ च नः ? || १२० ॥ निसर्गात् स्निह्यति मनो बलाद् द्रुह्यति किं त्विदम् । उद्यच्छावः किमाश्लेष्टुमेतौ योधयितुं नु वा ? ||१२१ ॥ इति व्याहारिणं रामं रथस्थं लवणो रथी । लक्ष्मणं चाऽडशोऽवोचत् सौष्ठवप्रश्रयान्वितम् ।। १२२ ।। जैत्रं जगदजय्यस्य रावणस्याऽपि दोष्मतः । दिष्ट्याऽद्राक्षं वीरयुद्धश्रद्धालुस्त्वामहं चिरात् ।। १२३ ।। नाऽपूर्यत रणश्रद्धा रावणेनाऽपि ते ध्रुवम् । एष तां पूरयिष्यामि त्वं च मे पूरयिष्यसि ।। १२४ ॥ इत्युक्ते रामसौमित्री द्वौ तौ च लवणाङ्कुशौ । आस्फालयामासतुः स्वं स्वं धनुर्वानभीषणम् ।। १२५ ॥ कृतान्तसारथी रामस्यन्दनं वज्रजवराट् । अनङ्गलवणरथमभ्यढौकयतां मिथः ॥ १२६ ॥ रथं विराधः सौमित्रेरडशस्य पुनः पृथुः । अन्योऽन्यमभ्यमित्रीणं चक्राते वरसारथीं ॥ १२७ ।। चतुरं भ्रमयामासुस्तेऽग्रसारथयो रथान् । प्रजहूर्विविधं ते च चत्वारो द्वन्द्वयोधिनः ॥ १२८ ॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणाड्डशौ । युयुधाते निरपेक्षौ त्वज्ञानाद्रामलक्ष्मणौ ।। १२९ ।। विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रघूद्वहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ।। १३० ।। कृतान्तोऽपि बभाषेऽदः खेदं प्राप्ता ह्यमी हयाः । सर्वाङ्ग विशिखैर्विद्धाः प्रतियोधेन तेऽमुना ।। १३१ ।। १ क्षये प्रलयकाल उद्घान्तसमुद्रवद् दुर्घरौ । २ आदौ हतं पश्चाद्विद्रुतम् । ३ अमित्रस्येमम् ।
लवणाकुशयोः रामलक्ष्मणाम्यां सह युद्धम् ।
।।२३६ ॥