________________
त्रिषष्टिशलाकापुरुषचरिते IR३७॥
सप्तमं पर्व नवमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
तुरङ्गा न त्वरन्तेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडितः ।।१३२ ॥ एतौ च मम दोर्दण्डौ द्विट्काण्डाघातजर्जरौ । न हि रश्मि प्रतोदं वा क्षमौ चालयितुं प्रभो! ॥ १३३ ॥ पद्मनाभोऽप्यभाषिष्ट ममाऽपि शिथिलायते । धनुश्चित्रस्थितमिव वजावत न कार्यकृत् ।। १३४ ।। अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम् । कणकण्डनमात्राहमेवैतदपि सम्प्रति ।। १३५ ।। अनेकशोऽड्डशीभूतं यद् दुष्टपदन्तिनाम् । हलरत्नं तदप्येतदभूद्भपाटनोचितम् ।। १३६ ॥ सदा य? रक्षितानां विपक्षक्षयकारिणाम् । तेषामेव ममाऽस्त्राणामवस्था केयमागता ? ।। १३७ ।। यथाऽपराजितासूनोरभून्मोघास्त्रता तदा । तथैव लक्ष्मणस्याऽपि मदनाङ्कुशयोधिनः ।। १३८ ।। अत्राऽन्तरे च सौमित्रिरडशेनोरसीषुणा । ताडितः कुलिशेनेव मूञ्छितो न्यपतद्रथे ।। १३९ ॥ सौमित्रिमूर्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यं सञ्ज्ञां लेभेऽथ लक्ष्मणः ।। १४० ।। साक्षेपं लक्ष्मणश्चोचे किं विराधाऽकृथा नवम् । रामभ्रातुर्दशरथसूनोरनुचितं ह्यदः ? ॥ १४१ ॥ तच्छीघ्रं नय तत्रैव रथं यत्र स मे द्विषन् । एष च्छिनद्मि तच्छीर्ष चक्रेणाऽमोघरंहसा ।। १४२ ॥ एवमुक्तो विराधोऽथाऽनैषीत्प्रत्यकुशं रथम् । तिष्ठ तिष्ठेति जल्पंश्च चक्रं जग्राह लक्ष्मणः ।। १४३ ।। भ्रमदर्कभ्रमकरं भ्रमयित्वा च तद्दिवि । क्रुद्धो मुमोच सौमित्रिरहुशायाऽस्खलद्रयम् ।। १४४ ।। आपतत्ताडयामासाऽनेकशोऽस्त्रैस्तदडशः । सर्वात्मना लवणोऽपि न तु तत्प्रत्यहन्यत ।। १४५ ॥ वेगेनाऽऽपत्य तच्चक्रमडशस्य प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगात् पुनर्नीड इवाऽण्डेजः ॥१४६ ॥ १ कशाम् । २ पक्षी।
लवणा
इकुशयोः
रामलक्ष्मणाभ्यां सह युद्धम् ।
॥२३७ ॥