________________
त्रिषष्टिशलाकापुरुषचरिते IR३८॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मण रावणचरितम् ।
तद्भूयो लक्ष्मणोऽमुञ्चत् कृत्वा तद्वत्प्रदक्षिणाम् । पुनस्तत्पाणिमेवाऽऽगाच्छाला भग्न इव द्विपः ।। १४७ ।। चिन्तयामासतुश्चैवं विषण्णौ रामलक्ष्मणौ । किं सीरिशाङ्गिणावेतौ न त्वावामिह भारते ? | १४८ ॥ अत्राऽन्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्याऽवोचदेवं खिन्नं रामं सलक्ष्मणम् ।। १४९ ।। हर्षस्थाने विषादोऽयं युवयोः किं रघूद्वहौ ? | पुत्रात्पराजयो वंशोद्योतनाय न करय हि ? ॥१५० ॥ सीताकुक्षिभवौ पुत्रौ ताविमौ लवणाङ्कुशौ । त्वां द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ।। १५१ ॥ अभिज्ञानमिदं तेऽत्र यच्चक्रं प्रबभूव न । मुधाऽभू रतं चक्रं पुरा बाहुबलावपि ।। १५२ ।। त्यागात्प्रभृति सीताया वृत्तान्तं नारदोऽखिलम् । पुत्रयुद्धान्तमाचख्यौ विश्वविस्मयदायकम् ।। १५३ ॥ रामोऽपि विस्मयव्रीडाखेदहर्षसमाकुलः । मुमूर्छ सञ्ज्ञां लेभे च संसिक्तश्चन्दनाम्भसा ।। १५४ ।। लक्ष्मणेन सहोदश्रुः पुत्रवात्सल्यपूरितः । जगाम रामो लवणाडशयोद्भुतमन्तिके ।। १५५ ।। अवतीर्य रथात्सद्यो विनीतौ लवणाङ्कशो । पादेषु पद्मसौमित्र्योस्त्यक्तास्त्रौ पेततुः क्रमात् ।। १५६ ।। तावालिङ्ग्य निजोत्सङ्गमारोप्य च रघूद्वहः । मूर्ध्नि चुम्बन रुरोदोच्चैः शोकस्नेहसमाकुलः ।। १५७ ॥ रामोत्सङ्गान्निजोत्सङ्गं तावारोप्याऽथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेऽश्रुपूर्णदृक् ।। १५८ ॥ विलुठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितभुजः शत्रुघ्नोऽप्यालिलिङ्ग तौ ।। १५९ ।। अपरेऽपि हि भूपालाः सेनयोरुभयोरपि । प्रमोदन्ते स्म सम्भूय विवाहमिलिता इव ।। १६०॥ १ अरी शत्रू । २ भरतचक्रिसम्बन्धि । ३ पुत्रपराक्रमेण विस्मयः, स्वपराजयेन व्रीडा, सीतावियोगेन खेदः, पुत्रप्राप्त्या च हर्षस्तेन युक्तः ।
पुत्रयोः
पितृपितृव्याभ्यां युद्धम्, नारदेन भेदप्रकटनम् ।
||२३८॥