________________
त्रिषष्टिशलाकापुरुषचरिते २३९॥
पुत्रयोर्विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरं ययौ ।। १६१ ॥ सदृक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ । जहषुः स्वामिहर्षेण भूचराः खेचराश्च ते ।। १६२ ।। भामण्डलनृपाख्यातो वज्रजङ्घनृपोऽपि हि । ननाम रामसौमित्री विनीतश्चिरपत्तिवत् ।। १६३ ।। रामस्तमाललापैवं भामण्डलसमोऽसि मे । पुत्रौ योऽवर्धयस्त्वं मेऽनैषीः काष्ठामिमां च यः ।। १६४ ।। इत्युक्त्वा पुष्पकारूढः पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत्पुरीम् ॥ १६५ ।। उदग्रीवपाणिभिः पौरै राजमार्गे च विस्मितैः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमगृहे ।। १६६ ।। तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥ १६७ ॥ अथ रामं सुमित्राभूः कपीश्वरबिभीषणौ । हनूमानङ्गदाद्याश्च सम्भूयैवं व्यजिज्ञपन् ।। १६८ ।। परदेशे स्थिता देवी त्वया विरहिताऽधुना । विनाऽमूभ्यां कुमाराभ्यामतिकष्टेन तिष्ठति ॥१६९ ।। यद्यादिशसि तत्स्वामिन्नानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पतिपुत्रोज्झिता सती ॥ १७०॥ किञ्चिद्रामो विचिन्त्योचे जानक्यानीयते कथम् ? । लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् ।। १७१ ।। जानेऽहं यत्सती सीता साऽपि स्वं वेत्ति निर्मलम् । दिव्यं दातुमथाऽदातुं तद् द्वयोरपि नाऽस्ति भीः ॥१७२ ॥ प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः ।। १७३ ॥ एवमस्त्वित्युदित्वा ते पुर्या बहिरकारयन् । विशालान्मण्डपानुच्चैस्तदन्तमञ्चधोरणीः ।।१७४ ।। तेषु चोपाविशन् भूपाः पौरामात्यादयोऽपि च । ते बिभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥ १७५ ॥ १दिशाम् । २ ऊर्ध्वा ग्रीवा पार्ट्जयश्च येषां तैः । ३ मञ्चश्रेणीः ।
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
SAHARASHTRA
सीतायाः कलङ्कनिवारणाय दिव्य पञ्चकनिवेदनम् ।
SASARALA
॥२३९ ॥