________________
त्रिषष्टिशलाकापुरुषचरिते २४०॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
ततो रामाज्ञयोत्थाय पुण्डरीकपुरे स्वयम् । गत्वा नत्वा च वैदेहीमित्युवाच कपीश्वरः ।। १७६ ॥ त्वत्कृते प्रैषि रामेण विमानं देवि ! पुष्पकम् । इदानीमिदमध्यास्स्व रामोपान्तमुपेहि च ।। १७७ ॥ साऽप्यूचेऽद्यापि मेऽरण्यत्यागदुःखं न शाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ? ॥ १७८ ॥ नत्वा भूयोऽपि सोऽवोचन्मा कुपस्तव शुद्धये । समं पौरैर्नृपैः सर्वैर्मचारूढोऽस्ति राघवः ।। १७९ ।। तेनेत्युक्ते पूर्वमपि जानकी शुद्धिकाङ्क्षिणी । आरुरोह विमानं तदयोध्यायां जगाम च ।। १८० ॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा । दत्तार्घा लक्ष्मणेनैत्य नमश्चक्रे नृपैरपि ।। १८१ ॥ अग्रे निषद्य सौमित्रिनूपैः सममदोऽवदत् । निजां पुरी निजं वेश्म प्रवेशाद्देवि ! पावय ॥१८२ ॥ सीताऽप्यूचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहं च नाऽन्यथा वत्साऽपवादो जातु शाम्यति ॥ १८३ ॥ इति सीताप्रतिज्ञां तेऽशंसन् रामाय भूभुजः । रामोऽप्युपेत्य वैदेहीमित्यूचे न्यायनिष्ठुरम् ।। १८४ ।। भोगा न चेद्दशास्येन तस्थुष्या अपि तद्गृहे । समक्षं सर्वलोकानां तद्दिव्यं कुरु शुद्धये ।। १८५ ।। स्मित्वा सीताऽप्युवाचैवं विज्ञस्त्वत्तोऽपरो न हि । अज्ञात्वा यो हि मे दोष त्यागं कुर्या महावने ।। १८६ ।। दण्डमादौ विधायाऽद्य कुरुषे मत्परीक्षणम् । विचक्षणोऽसि काकुत्स्थ ! सज्जा तत्राऽपि नन्वहम् ।। १८७॥ ऊचे विलक्षो रामोऽपि जाने दोषस्तवाऽस्ति न । जनोत्पादितदोषस्योत्तारणायेदमुच्यते ।। १८८ ॥ जगाद जानकी दिव्यपञ्चकं स्वीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यथ तण्डुलान् ।। १८९ ।। १ रामसन्निधौ । २ रावणगृहे तस्थुष्या वसन्त्यास्तव रावणेन समं भोगा न चेत्स्युरिति सम्बन्धः । ३ मन्त्रितांस्तण्डुलानिति तात्पर्यम् ।
सीतायाः कलङ्कनिवारणाय दिव्य पञ्चक निवेदनम् ।
॥२४०।।