________________
त्रिषष्टिशलाका
सप्तमं पर्व
नवमः
पुरुषचरिते
||२४१॥
सर्गः रामलक्ष्मणरावणचरितम् ।
तुलां समधिरोहामि तप्तं कोशं पिबाम्यहम् । गृह्णामि जिह्वया फोलं किं तुभ्यं रोचते ? वद ॥ १९० ॥
युग्मम् ।। अत्रान्तरेऽन्तरीक्षस्थः सिद्धार्थो नारदोऽप्यथ । लोकः सर्वश्च तुमुलं निषिध्येदमभाषत ।। १९१ ।। भो भो राघव ! सीतेयं निश्चयेन सती सती । महासतीति मा कार्षीर्विकल्पमिह जातुचित् ।। १९२ ।। रामोऽप्युवाच हे लोका ! मर्यादा काऽपि नाऽस्ति वः । सङ्कल्प्य दोषं युष्माभिरेवेयं दूषिता पुरा ।। १९३ ।। ब्रूथाऽन्यत् पुरतो यूयमन्यद् दूरे स्थिताः पुनः । तदा कथं सदोषाऽऽसीच्छीलवत्यधुना कथम् ? | १९४ ।। भूयोऽपि गृह्णतां दोषमर्गला नाऽस्ति काऽपि वः । प्रत्ययाय ततः सीता विशतु ज्वलितेऽनले ।। १९५ ।। इत्युक्त्वाऽखानयद्रामो गर्त हस्तशतत्रयम् । पुरुषद्वयदनं चाऽपूरयच्चन्दनेन्धनैः ॥ १९६ ॥ अत्राऽन्तरे च वैताढ्यस्योत्तरश्रेणिवर्तिनः । हरिविक्रमराजस्य कुमारो जयभूषणः ।। १९७ ।। ऊढाष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमशिखाख्येन समं मातुलसूनुना ।। १९८ ।। दृष्ट्वा निर्वासयामास तदैव प्राव्रजत् स्वयम् । साऽपि मृत्वा समजनि विद्युइंष्ट्रेति राक्षसी ॥ १९९ ।। अयोध्याबहिरभ्येत्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्युदंष्ट्रा च तमुपाद्रवत् ।। २०० ।। केवलं अस्य चोत्पेदे तदुत्सवविधित्सया । तदानीं च समाजग्मुः सुनासीरादयः सुरा ॥ २०१ ।। सीतायाः प्रेक्ष्य तद्देवाः शक्रमेवं व्यजिज्ञपन् । लोकालीकापवादेन सीता वह्नौ प्रवेक्ष्यति ॥२०२ ।। १ सीसकम् । २ शस्त्रधारम् । ३ जयभूषणः । ४ सुनासीरः इन्द्रः ।
सीतायाः कलकनिवारणाय दिव्य पञ्चक
निवेदनम् ।
॥२४१ ।।