________________
त्रिषष्टिशलाकापुरुषचरिते २४२॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
पत्त्यनीकपतिं सीतासान्निध्यायाऽऽदिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे स्वयम् ।। २०३ ।। रामाज्ञयाऽथ मृतकास्तं गतं चन्दनाञ्चितम् । परितो ज्वालयामासुर्दुःप्रेक्ष्यं चक्षुषामपि ।। २०४ ॥ ज्वालाकरालं तं प्रेक्ष्य रामो दध्याविदं हृदि । अहो ! अत्यन्तविषमं किं ममेदमुपस्थितम् ? ।। २०५ ।। इयं महासती नूनं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्येव हि दिव्यस्य प्रायेण विषमा गतिः ।। २०६ ।। मया सहाऽस्या निर्वासो हरणं रावणेन च । वने त्यागो मया भूयो भूयोऽप्येतेच्च मत्कृतम् ॥२०७ ।। एवं सोऽचिन्तयद्यावत्तावत्सीतोपपावकम् । स्थित्वा स्मृत्वा च सर्वज्ञं चक्रे सत्यापनामिति ।। २०८ ।। हे लोकपाला ! लोकाश्च सर्वे शृणुत यद्यहम् । अन्यमभ्यलषं रामात्तदाऽग्निर्मा दहत्वयम् ।। २०९ ।। अन्यथा तु सुखस्पर्शी वारीवाऽस्त्वित्युदीर्य सा । झम्पां स्मृतनमस्कारा ददौ तस्मिन् हुताशने ।। २१० ॥ यावत्सा प्राविशत्तावद्विध्यातो वह्निराश्वपि । गर्तः स्वच्छोदकापूर्णः स तु वापीत्वमाययौ ॥२११ ॥ सीता त्वधिजलं पद्मोपरि सिंहासनस्थिता । पैनेवाऽस्थात्सतीभावतुष्टदेवप्रभावतः ।। २१२ ।। कुर्वाणं क्वाऽपि हुङ्कारं क्वचिद् गुलुगुलारवम् । क्वाऽपि भम्भायितध्वानं क्वचित्पटपटाध्वनि ।।२१३ ॥ क्वचिद्दिलिदिलिस्वानं क्वचित् खलखलास्वनम् । समुद्राम्भ इवाऽम्भस्तत्तत्र सावर्तमैक्ष्यत ॥ २१४ ॥
॥युग्मम् ।। तदुच्छलज्जलं वाप्या उद्वेलस्येव वारिधेः । आप्लावयितुमारेभे मञ्चानपि गरीयसः ।। २१५ ॥ १ सेवकाः । २ अग्निप्रवेशनम् । ३ लक्ष्मीरिव ।
कलङ्कनिवारणाय सीताया
हुताशने
झम्पापातः ।
॥२४२ ॥