________________
त्रिषष्टिशलाकापुरुषचरिते २४३॥
सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
विद्याधरा भयोभ्रान्ताः समुत्पत्येयुरम्बरे । भूचराश्चुक्रुशुश्चैवं पाहि सीते ! महासति ! ।। २१६ ।। सीताऽप्युत्तीर्णमम्भस्तत् स्वपाणिभ्यामवालयत् । पुनर्वापीप्रमाणं तद्भूत्तस्याः प्रभावतः ।। २१७ ।। उत्पलैः कुमुदैः पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्भ्रान्तभृङ्गालीसङ्गीता हंसशालिनी ।। २१८ ॥ आस्फैलद्वीचिनिचयमणिसोपानबन्धुरा । बद्धोभयतय रत्नोपलैर्वापी बभूव सा ।। २१९ ।।
॥युग्मम् ॥ ननृतुर्नारदाद्याः खे सीताशीलप्रशंसिनः । सीतोपरिष्टात्तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ।। २२० । अहो शीलमहो शीलं रामपल्या यशस्करम् ! । इति लोकप्रघोषोऽभूद्रोदःकुक्षिम्भरिः क्षणात् ।। २२१ ॥ मातुः प्रभावं तं दृष्ट्वा मुदितौ लवणाङ्कुशौ । हंसाविव तरन्तौ तौ तत्समीपमुपेयतुः ।। २२२ ।। तौ मूर्ध्याघ्राय वैदेह्या पार्श्वयोरुपवेशितौ । कलभाविव रेजाते नदीतीरद्वयस्थितौ ।। २२३ ।। गत्वा सौमित्रिशत्रुघ्नभामण्डलबिभीषणाः । सुग्रीवाद्याश्च वैदेहीं नमश्चक्रुः सभक्तयः ।। २२४ ॥ सीतामुपाययौ रामोऽप्यभिरामतरद्युतिः । पश्चात्तापत्रपापूर्ण इत्यूचे रचिताञ्जलिः ।। २२५ ।। स्वभावादप्यसदोषग्राहिणां पुरवासिनाम् । छन्दानुवृत्त्या त्यक्ताऽसि मया देवि ! सहस्व तत् ।। २२६ ॥ त्यक्तोग्रश्वापदेऽरण्येऽजीवस्त्वं स्वप्रभावतः । एकं दिव्यं तदप्यासीन्नाऽज्ञासिषमहं पुनः ॥२२७ ॥ क्षान्त्वा सर्वं ममेदानीमिदमध्यास्स्व पुष्पकम् । चल स्ववेश्मनि प्राग्वद्रमस्व सहिता मया ॥ २२८ ।। १ ईयुर्जग्मुः । २ उच्छलितम् । ३ सौरभेण सुगन्धेनोद्घान्ता या भृङ्गाली, भ्रमरसमूहस्तस्याः सङ्गीतं यस्यां सा । ४ आस्फलन्तो वीचिनिचयास्तरङ्गसमूहा यत्रैतादृशैर्मणिसोपानैर्बन्धुरा व्याप्ता । ५ इच्छानुवर्तनेन ।
कलङ्कनिवारणाय सीताया
हुताशने
झम्पापातः।
॥२४३ ॥