________________
त्रिषष्टिशलाकापुरुषचरिते ।२४४॥
सीताऽप्यूचे न ते दोषो न च लोकस्य कश्चन । न चाऽन्यस्याऽपि कस्याऽपि किं तु मत्पूर्वकर्मणाम् ।। २२९ ।। निर्विण्णा कर्मणामीदृग्दुःखावर्तप्रदायिनाम् । ग्रहीष्यामि परिव्रज्यां तषामुच्छेदकारिणीम् ।। २३० ।। इत्युक्त्वा मैथिली केशानुच्चखान स्वमुष्टिना । रामस्य चाऽर्पयामास शक्रस्येव जिनेश्वरः ।। २३१ ॥ सद्यो मुमूर्छ काकुत्स्थो नोत्तस्थौ यावदेष च । तावत्सीता ययौ साधुजयभूषणसन्निधौ ।। २३२ ॥
केवली स जयभूषणो मुनिमैथिली विधिवदप्यदीक्षयत् । सुप्रभाख्यगणिनीपरिच्छदे तां चकार च तपःपरायणाम् ।। २३३ ।।
सप्तमं पर्व नवमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषशिलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम
नवमः सर्गः ।
शीलप्रभावेण जलोपद्रवनाशः, सीतया संयमग्रहणम् ।
॥२४४ ।।