________________
दशमः सर्गः ।
त्रिषष्टिशलाकापुरुषचरित २४५॥
सप्तमं पर्व दशमः
| सर्गः
रामलक्ष्मणरावणचरितम् ।
अथ सिक्तश्चन्दनेन लब्धसञो रघूद्वहः । व्याजहार क्व ननु सा सीतादेवी मनस्विनी ? ||१॥ भो भूचराः ! खेचराश्च न चेद्युयं मुमूर्षवः । तन्मे लुञ्चितकेशामप्याशु दर्शयत प्रियाम् ।।२।। वत्स ! वत्सैहि सौमित्रे! तूणौ तूणौ धनुर्धनुः । यदमी सन्त्युदासीनाः सुस्थिता दुस्थिते मयि ॥३॥ इत्युक्त्वा धन्व गृह्णन्तं तं नत्वा लक्ष्मणोऽब्रवीत् । आर्याऽऽर्य ! किमिदं ? लोकः खल्वेष तव किङ्करः ॥४॥ सीतां यथा दोषभीतोऽत्याक्षीस्त्वं न्यायनैष्ठिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत् ।। ५ ।। प्रत्यक्षमिह वः सीता स्वयमुत्पाट्य कुन्तलान् । आददे विधिवद्दीक्षां जयभूषणसन्निधौ ॥६॥ इदानीमेव तस्यर्षेरुदपद्यत केवलम् । तज्ज्ञानमहिमाऽवश्यकृत्यमस्ति तवाऽपि हि ॥७॥ तत्राऽऽस्ते स्वामिनी सीता स्वामिन्नात्तमहाव्रता । दर्शयन्ती मुक्तिमार्ग सतीमार्गमिवाऽनघा ॥ ८ ॥ रामः प्रकृतिमालम्ब्योवाच साधु मम प्रिया । उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके ॥ ९ ॥ इत्युक्त्वा सपरीवारो जगाम जयभूषणम् । नत्वा च देशनां तस्माच्छुश्राव रघुपुङ्गवः ।। १०॥ देशनाऽन्ते च पप्रच्छ नाऽत्मानं वेम्यहं प्रभो !| भव्योऽहं किमुताऽभव्यस्तदाचक्ष्व प्रसीद मे ।। ११ ॥ अथाऽऽख्यत्केवली सोऽपि भव्योऽसि त्वं न केवलम् । सिद्धि यास्यस्यनेनैव जन्मनोत्पन्नकेवलः ॥ १२ ॥ रामः पप्रच्छ भूयोऽपि मोक्षः प्रव्रज्यया भवेत् । सर्वत्यागेन सा किं तु लक्ष्मणो दुस्त्यजो मम ॥१३ ॥ १ सा प्रव्रज्या सर्वत्यागेन भवेत्, परन्तु लक्ष्मणः मम दुस्त्यजोऽतः सर्वत्यागः कथं भवेदिति तात्पर्यम् । २ केवलम्-अव्ययम् मात्रार्थे ।
रामादयो ज्ञानिनं
स्वपूर्व
भवान् पृच्छन्ति ।
||२४५ ॥