________________
त्रिषष्टिशलाकापुरुषचरिते ।२४६॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
मुनिराख्यदवश्यं ते भोक्तव्या बलसम्पदः । तदन्ते त्यक्तसङ्गः सन् प्रव्रज्य शिवमाप्स्यसि ।।१४ ॥ नत्वा बिभीषणोऽपृच्छत् केन प्राग्जन्मकर्मणा । जहार रावणः सीतां लक्ष्मणस्तं न्यहन् युधि ? ।। १५ ॥ सुग्रीवो भामण्डलश्च तथेमौ लवणाङ्कुशौ । अहं च कर्मणा केनाऽत्यन्तरक्ता रघूद्वहे ? ॥ १६ ।। भगवानाचचक्षेऽथ भरतार्धेऽत्र दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवद्वणिक् ।। १७ ।। धनदत्तवसुदत्तौ सुनन्दाकुक्षिजौ सुतौ । तस्याऽभूतां तयोर्मित्रं याज्ञवल्क्योऽभवद् द्विजः ।। १८ ।। नाम्ना सागरदत्तश्च पुरे तस्मिन्नभूद्वणिक् । तस्य सूनुर्गुणधरः कन्या गुणवती पुनः ।। १९ ।। दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा ।। २० ।। श्रीकान्तनाम्ने चाऽऽढ्याय तत्रत्यायाऽर्थलोभतः । ददौ गुणवती छन्नं माता रत्नप्रभा पुनः ।। २१ ॥ याज्ञवल्क्यस्तु तज्ज्ञात्वा नयदत्तात्मजन्मनोः । स्वमित्रयोः समाचख्यावसहो मित्रवञ्चने ॥ २२ ॥ वसुदत्तस्ततो गत्वा श्रीकान्तमवधीन्निशि । श्रीकान्तेनाऽपि खड्गेन वसुदत्तो निपातितः ॥ २३ ॥ विन्ध्याटव्यामभूतां तावुभावपि कुरङ्गको । गुणवत्यप्यनूढैव मृत्वा तत्राऽभवन्मृगी ॥२४ ।। तस्याः कृते च तत्राऽपि युद्ध्वा पञ्चत्वमीयतुः । मिथो वैरेण तावेवं भूयांसं प्रेमतुर्भवम् ।।२५ ॥ तदानीं धनदत्तोऽपि स्वभ्रातृवधपीडितः । निर्धर्मोऽटन्निशि साधून् ददर्श क्षुधितोऽन्यदा ॥२६ ॥ ययाचे भोजनं तेभ्यस्तेष्वेको मुनिरब्रवीत् । दिवाऽपि न हि साधूनां भक्तपानादिसङ्ग्रहः ॥२७॥ तवाऽपि नोचितं रात्रौ भोक्तुं पातुं च भद्रक! । को वेत्ति जीवसंसक्तिमन्नादौ तमसीदृशे ? ॥२८ ।।
रामादयो ज्ञानिनं स्वपूर्वभवान पृच्छन्ति, गुरुस्तानह।
॥२४६ ।।