________________
त्रिषष्टिशलाकापुरुषचरिते ।।२४७॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
इत्यादि बोधितस्तेन सुधयेवोक्षितो हृदि । श्रावकीभूय मृत्वा च सौधर्मे त्रिदशोऽभवत् ।। २९ ॥ च्युत्वा महापुरपुरे धारणीमेरुनन्दनः । नाम्ना पद्मरुचिः श्रेष्ठी परमश्रावकोऽभवत् ।। ३० ।। सोऽन्यदा गोकुलं गच्छन्नश्वारूढो यदृच्छया । जरद्वृषभमद्राक्षीन्मुमूर्षु पतितं पथि ॥ ३१ ॥ कृपालुः सोऽवरुह्याश्वान्निकटीभूय तस्य तु । कर्णमूले ददौ पञ्चपरमेष्ठिनमस्कृतीः ।। ३२ ।। मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत् । छत्रच्छायनरेन्द्रश्रीदत्तयोवृषभध्वजः ॥३३॥ स्वैरं भ्रमन् सोऽन्यदा तां जरद्वृषभुवं ययौ । लेभे च जातिस्मरणं प्राग्जन्मस्थानदर्शनात् ।। ३४ ।। तत्र चाऽकारयच्चैत्यं तस्य चैत्यस्य चैकतः । भित्तावालेखयामास मुमूर्षु तं जरद्वम् ।।३५ ।। तत्कर्णान्ते नमस्कारदायिनं पुरुषं च तम् । तदभ्यर्णे तदीयं च सपर्याणं तुरङ्गमम् ।।३६ ।। ।। युग्मम् ।। आरक्षास्तत्र चाऽऽदिक्षद्यश्चित्रं परमार्थतः । इदं विदन्नुदीक्ष्येत स ज्ञाप्यस्त्वरितं मम ॥३७॥ इत्युक्त्वा स ययौ वेश्म चैत्ये तत्राऽन्यदा पुनः । वन्दनायाऽऽययौ पद्मरुचिः स श्रेष्ठिपुङ्गवः ।।३८ ।। वन्दित्वा तत्र सोऽर्हन्तं भित्तिचित्रमुर्दक्षत । सर्वं मे संवदत्येतदित्यूचे च सविस्मयः ॥ ३९ ॥ विज्ञप्तोऽथ तदारक्षस्तत्राऽऽगाद्वृषभध्वजः । किं वेत्सि चित्रवृत्तान्तमित्यपृच्छच्च तं नरम् ।। ४० ॥ गवेऽस्मै म्रियमाणाय नमस्कारानदां पुरा । इहाऽभिज्ञेन केनाऽपि लिखितोऽस्मीत्युवाच सः ।। ४१ ॥ तं नत्वोवाच वृषभध्वजो योऽयं जरद्गवः । राजपुत्रोऽभवं सोऽहं नमस्कारप्रभावतः ॥ ४२ ॥ कामयास्यमहं योनि ? तिर्यग्योनिस्तदाऽप्यहम् । कृपालुस्त्वं न चेन्मह्यं नमस्कारानदास्यथाः ॥ ४३ ।।
सीतारामसुग्रीवादीनां पूर्वभववर्णनम् ।
||२४७ ॥
१सिक्तः