________________
त्रिषष्टिशलाकापुरुषचरिते
२४८॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
सर्वथा त्वं गुरुः स्वामी दैवतं चाऽसि मे खलु । भुझ्व राज्यमिदं प्राज्यं त्वयायत्तं ममाऽपि यत् ।। ४४ ।। इत्युक्त्वा पद्मरुचिना सहैव वृषभध्वजः । विजहाराकृतद्वैधः पालयञ्च्छ्रावकव्रतम् ।। ४५ ॥ श्रावकत्वं चिरं सम्यक् पालयित्वा विपद्य च । ईशानकल्पे जज्ञाते तो देवौ परमर्द्धिकौ ॥४६ ।। च्युत्वा ततः पद्मरुचिर्मरोरपरतो गिरौ । वैताब्ये नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥ ४७ ॥ कनकाभाकुक्षिजन्मा नयनानन्द इत्यभूत् । राज्यं भुक्त्वा परिव्रज्य माहेन्द्रे त्रिदशोऽभवत् ।। ४८ ।।
॥युग्मम् ॥ च्युत्वा च प्राग्विदेहेषु क्षेमायां पुरि भूपतेः । विपुलवाहनस्याऽभूत्पद्मावत्यां स नन्दनः ।। ४९ ॥ श्रीचन्द्रो नाम भुक्त्वा च राज्यं प्रव्रज्य चाऽन्तिके । समाधिगुप्तस्य मुनेब्रह्मलोकेन्द्रतां ययौ ।। ५० ॥
॥युग्मम् ।। च्युत्वा ततोऽयं पद्मोऽभूद् बलभद्रो महाबलः । सुग्रीव एष वृषभध्वजजीवस्त्वभूक्रमात् ।। ५१ ॥ भ्रान्त्वा श्रीकान्तजीवोऽभून्मृणालकन्दपत्तने । राजसूनुर्वज्रकण्ठो शम्भुहेमवतीभवः ।। ५२ ॥ भ्रान्त्वा च वसुदत्तोऽभूच्छम्भुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रीभूतिरात्मजः ॥५३ ॥ गुणवत्यपि सा भ्रान्त्वा श्रीभूतेस्तस्य नन्दना । सरस्वतीकुक्षिभवा नाम्ना वेगवतीत्यभूत् ।। ५४ ॥ सोद्यौवनाऽन्यदा साधुं प्रतिमास्थं सुदर्शनम् । वन्द्यमानं जनैर्दृष्ट्वा सोपहासमदोऽवदत् ।। ५५ ।। अहो साधुरयं दृष्टः पुरा क्रीडन्महेलया । साऽनेन प्रेषिताऽन्यत्र तं वन्दध्वं कथं जनाः ? ।। ५६ ॥ १ न कृतं द्वैधं येन सोऽभिन्न इति यावत् । २ स्त्रिया ।
सीतारामसुग्रीवादीनां पूर्वभववर्णनम् ।
॥२४८ ॥