________________
त्रिषष्टिशलाकापुरुषचरिते IR४९।।
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
श्रुत्वा विपरिणम्याऽऽशु लोकः सर्वोऽपि तं मुनिम् । विप्लावयितुमारेभे कलङ्कोद्घोषपूर्वकम् ॥ ५७ ॥ न मे यावत्कलङ्कोऽयमुत्तरिष्यति सर्वथा । न तावत्पारयिष्यामीत्यभिजग्राह सोऽप्यषिः ।। ५८ ।। ततश्च देवतारोषाच्छूनं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा सा पित्रा भसिता भृशम् ।। ५९ ॥ रोषात् पितुश्च सा भीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्युच्चैःस्वरमब्रवीत् ।।६० ॥ निर्दोषः सर्वथाऽसि त्वं दोषोऽलीकोऽयमेव ते । मयैवाऽऽरोपितः स्वामिस्तितिक्षस्व क्षमानिधे! ॥६१ ॥ श्रुत्वेति तद्वचो लोको भूयोऽप्यानर्च तं मुनिम् । उल्लाघाऽभूद्वेगवती तदादि श्राविका च सा ।। ६२ ।। तां च रूपवतीं दृष्ट्वा ययाचे शम्भुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीभूतिः प्रत्युवाच तम् ।। ३ ।। शम्भुर्निहत्य श्रीभूतिं बुभुजे तां बलादपि । भवान्तरे ते वधाय भूयासमिति साऽशपत् ।। ६४ ।। शम्भुनाऽपि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रवव्राजाऽथ पूर्णायुर्ब्रह्मलोकमुपाययौ ।। ६५ ।। ततश्च्युत्वा शम्भुजीवरक्षोनाथस्य मृत्यवे । निदानवशतो जज्ञे सीतेयं जनकात्मजा ।। ६६ ।। सुदर्शनमुनेस्तस्याऽलीकदोषाधिरोपणात् । अस्याः कलोऽलीकोऽयं लोकेनेहाऽधिरोपितः ।। ६७ ॥ भवं भ्रान्त्वा शम्भुजीवोऽप्युदपादि द्विजन्मः । कुशध्वजस्य सावित्र्यां प्रभासो नाम नन्दनः ।। ६८ ॥ स प्रवव्राज विजयसेनर्षेरन्तिकेऽन्यदा । परमं च तपस्तेपे सहमानः परीषहान् ।। ६९ ॥ सम्मेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राक्षीदिन्द्रवत्परमर्द्धिकम् ।। ७० ।। तपसाऽनेन भूयासमीदृगृद्धिरिति व्यधात् । स निदानं विपद्याऽथोत्पेदे कल्पे तृतीयके ।। ७१ ।। १ श्यामम् । २ निर्मला ।
राम-लक्ष्मण बिभीषणविशाल्याभामण्डलादीनां पूर्वभवाः ।
।। २४९ ।।