________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
२५०॥
ततश्च्युत्वा रावणोऽभूत् खेचरेन्द्रस्तवाऽग्रजः । कनकप्रभऋद्धेर्यो निदानमकरोत्तदा ।। ७२ ।। धनदत्तवसुदत्तमित्र यस्तु द्विजोऽभवत् । याज्ञवल्क्यो भवं भ्रान्त्वा त्वमभूः स बिभीषणः ।।७३ ।। राज्ञा हतस्तु श्रीभूतिर्धा जगाम ततश्च्युतः । सुप्रतिष्ठपुरे विद्याधरोऽजनि पुनर्वसुः ।। ७४ ।। स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां त्रिभुवनानन्दचक्रिणोऽनङ्गसुन्दरीम् ।।७५ ।। चक्रिणा प्रेषितैर्विद्याधरैर्युद्धाकुलस्य तु । विमानात्तस्य चाऽपप्तन्निकुओऽनङ्गसुन्दरी ।।७६ ।। कृत्वा निदानं तत्प्राप्त्यै प्रव्रज्य च पुनर्वसुः । स्वर्ग ययौ ततश्च्युत्वा लक्ष्मणोऽयमजायत ॥७७ ।। वनस्थिता साऽप्यनङ्गसुन्दर्युग्रं तपोऽकरोत् । विहितानशना चाऽन्ते जग्रसेऽजगरेण सा ।। ७८ ।। मृत्वा समाधिना साऽभूद्देवी कल्पे द्वितीयके । ततश्च्युत्वा विशल्याऽभूलक्ष्मणस्य महिष्यसौ ।। ७९ ॥ योऽभूद् गुणवतीभ्राता नाम्ना गुणधरः स तु । भवं भ्रान्त्वाऽभवद्राजपुत्रः कुण्डलमण्डितः ।। ८० ।। श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीतासोदर एषोऽभूद्भामण्डलनरेश्वरः ।। ८१ ॥ इतोऽभूतां च काकन्द्यां वामदेवद्विजन्मनः । श्यामलाकुक्षिजौ पुत्रौ वसुनन्दसुनन्दनौ ।। ८२ ॥ एकदा च तयोर्गेहे तिष्ठतोराययौ मुनिः । मासोपवासी ताभ्यां च भक्तिः प्रतिलम्भितः ।। ८३ ।। मृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ मृत्वा सौधर्मे तौ सुरौ ततः ।। ८४ ।। च्युत्वाऽभूतां च काकन्द्यां रतिवर्धनभूपतेः । सुदर्शनाभवौ पुत्रौ प्रियङ्करशुभङ्करौ ।। ८५ ।। राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरौ ग्रैवेयकेऽभूतां च्युत्वा च लवणाङ्कुशौ ।। ८६ ।। सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । भ्रान्त्वाऽभूदेष सिद्धार्थोऽध्यापको रामपुत्रयोः ।। ८७ ।।
राम-लक्ष्मण विभीषणविशाल्याभामण्ड
लादीनां
पूर्वभवाः ।
॥२५०॥