________________
त्रिषष्टिशलाकापुरुषचरिते IR५१॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
एवं मुनिवचः श्रुत्वा संवेगं बहवो ययुः । तदैव रामसेनानीः कृतान्तः प्राव्रजत्पुनः ।। ८८॥ अथोत्थाय नमश्चक्रे काकुत्स्थो जयभूषणम् । उपसीतं च गत्वैवं चिन्तयामास चेतसि ।। ८९ ।। असौ शिरीषमृद्वङ्गी राजुपुत्री मम प्रिया । सीता शीतातपक्लेशं कथं नाम सहिष्यते ? ॥९० ॥ इमं संयमभारं च सर्वभारातिशायिनम् । उद्वक्ष्यति कथं नाम हृदयेनाऽपि दुर्वहम् ? ॥९१ ॥ यद्वा सतीव्रतं यस्या न भक्तुं रावणोऽप्यलम् । सा नियूंढप्रतिज्ञैवं भाविनी संयमेऽपि हि ।। ९२ ॥ एवं विमृश्य वैदेहीं ववन्दे लक्ष्मणाऽग्रजः । लक्ष्मणोऽन्ये च राजानः श्रद्धानिर्धातचेतसः ॥ ९३ ।। इतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीताकृतान्तवदनौ तेपाते च परं तपः ।। ९४ ॥ तपस्तप्त्वा ब्रह्मलोके कृतान्तवदनो ययौ । सीताऽपि षष्टिं वर्षाणि विदधे विविधं तपः ।। ९५ ॥ त्रयस्त्रिशदहोरात्री कृत्वाऽन्तेऽनशनं मृता । द्वाविंशत्यर्णवायुः सोऽच्युतेन्द्रः समजायत ॥९६ ।। इतश्च शैले वैताढ्येऽभूतु काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपतिस्तदा ॥९७ ॥ मन्दाकिनीचन्द्रमुख्योः कन्ययोः स स्वयंवरे । सपुत्रान् भूपतीन् रामलक्ष्मणादीनथाऽऽह्वयत् ।। ९८ ।। तत्राऽऽसीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वने चन्द्रमुख्याडशः पुनः ॥९९ ॥ लक्ष्मणस्य सुतास्तत्र क्रोधादुत्तस्थिरे युधि । सार्धे शते द्वे अपि ते युगपच्छ्रीधरादयः ।। १०० ॥ श्रुत्वा सन्नह्यतस्तांश्च प्रोचाते लवाणाङ्कुशौ । को नाम योत्स्यतेऽमीभिरखध्या भ्रातरः खलु ।। १०१ ।। यथा न तातयोर्भेदः कोऽपि ज्येष्ठकनिष्ठयोः । तत्पुत्राणां तथाऽस्माकममीषामपि माऽस्तु सः ॥१०२ ॥ १ स भेदः ।
सीताया
अच्युते गमनं लवणा
इकुशयो
लग्नः
।
॥२५१ ।।