________________
त्रिषष्टिशलाकापुरुषचरिते २५२॥
सप्तमं पर्व दशमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । वीक्षापन्ना निनिन्दुः स्वं दुःकर्मारम्भसम्मुखम् ।। १०३ ।। सद्यः संवेगमापन्नाः पितरावनुमन्य ते । महाबलमुनेः पादपद्मान्ते जगूहुव्रतम् ।। १०४ ।। जातोद्वाही तदानीं तावनङ्गलवणाङ्कुशौ । सहैव सीरिशाङ्गिभ्यामयोध्यामीयतुः पुरीम् ।। १०५ ।। इतश्च स्वपुरे हर्म्यमूनि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुद्धधीः ।। १०६ ॥ श्रेणिद्वयं वशीकृत्याऽस्खलन् सर्वत्र लीलया । विहृत्याऽन्ते चाऽऽत्तदीक्षो भवेयं पूर्णवाञ्छितः ॥१०७ ॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत्पपात् खात् । स मृत्वा देवकुरुषु जज्ञे युगलधर्मिषु ।। १०८ ।। इतश्च हनूमांश्चैत्रे चैत्यवन्दनहेतवे । मेरुं गतो निवृत्तोऽस्तमैयन्तं सूर्यमैक्षत ।। १०९ ॥ एवं च दध्यावुदयो यथा ह्यस्तं तथा खलु । निदेर्शनमयं सूर्यो धिग्धिक् सर्वमशाश्वतम्॥११० ।। एवं विचिन्त्य स्वपुरे गत्वा राज्यं सुते न्यधात् । धर्मरत्नाचार्यपार्श्वे प्रव्रज्यामाददे स्वयम् ॥ १११ ॥ तमनुप्राव्रजन्नाज्ञां सार्धसप्तशतानि च । आर्यालक्ष्मीवतीपार्श्वेऽस्थुस्तत्पल्यश्च दीक्षिताः ॥११२ ।। ध्यानानलेन निर्दह्य क्रमात् कर्माणि मूलतः । श्रीशैलः प्राप्य शैलेशी जगाम पदमव्ययम् ॥ ११३ ।। हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ रघूद्वहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ?।। ११४ ॥ तां रामचिन्तामवधेर्ज्ञात्वा सौधर्मवासवः । ऊचे मध्येसभमहो ! कर्मणां विषमा गतिः ॥११५ ॥ रामश्चरमदेहोऽपि यद्धर्म हसति स्वयम् । सौख्यं विषयसम्भूतं प्रत्युतैष प्रशंसति ॥ ११६ ।। अथवा ज्ञातमनयो रामलक्ष्मणयोर्मिथः । स्नेहो गाढतरः कोऽपि भवानिर्वेदकारणम् ।। ११७ ॥ १ विस्मयं प्राप्ताः । २ अयति गच्छति तमयन्तम् । ३ दृष्टान्त ।
सीताया अच्युते गमनम्, लवणा
इकुशयो
लग्नः हनुमतो मोक्षः ।
॥२५२ ।।