________________
त्रिषष्टिशलाका
पुरुषचरिते
| सप्तमं पर्व
दशमः | सर्गः रामलक्ष्मणरावणचरितम् ।
IR५३॥
द्वौ देवौ कौतुकात्तत्र तयोः स्नेहं परीक्षितुम् । उपेयतुरयोध्यायां लक्ष्मणस्य निकेतने ।। ११८ ॥ दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ । सर्वमन्तःपुरस्त्रैणमाक्रन्दत् करुणस्वरम् ।। ११९ ॥ हा पद्म ! पद्मनयन ! बन्धुपद्मदिवाकर! । अकाण्डमृत्युः कोऽयं ते विश्वस्याऽपि भयङ्करः ? ॥ १२० ॥ एवं च रुदतीर्वक्षांस्यानाना मुक्तकुन्तलाः । अन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ।। १२१ ।। ममाऽसौ किं मृतो भ्राता जीवितस्याऽपि जीवितम् ? | पिशुनेन कृतान्तेन किं कृतं छलघातिना?|| १२२ ॥ एवं च भाषमाणस्य वचसा सह जीवितम् । सौमित्रेर्निर्ययौ कर्मविपाको दुरतिक्रमः ।। १२३ ॥ स्वर्णस्तम्भमवष्टभ्य स्थितः सिंहासनेऽपि हि । सोऽथ प्रसारिताक्षोऽस्थाल्लेप्यमूर्तिरिवाऽक्रियः ।। १२४ ।। परासुं लक्ष्मणं दृष्ट्वा विषण्णौ तौ सुरावपि । मिथो जजल्पतुरहो ! किमावाभ्यामिदं कृतम् ? ।। १२५ ॥ विश्वाधारः पुमानेष किमावाभ्यां हहा ! हतः ? । इति स्वं बहु निन्दन्तौ स्वकल्पं जग्मतुः पुनः ॥ १२६ ॥ पेरासुं लक्ष्मणं प्रेक्ष्य तत्र चाऽन्तःपुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलत्कुन्तलालिकाः ।। १२७ ॥ तच्चाक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धमविज्ञायाऽप्यमङ्गलम् ।। १२८ ॥ जीवन्नेवैष तिष्ठामि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेषजं तत्प्रतिक्रिया ॥ १२९ ॥ इत्युक्त्वाऽजूहवद्रामो वैद्याज्योतिषिकानपि । प्रयोगं मन्त्रतन्त्राणां कारयामास चाऽसकृत् ।। १३०॥ वैफल्ये मन्त्रतन्त्राणां मूर्छा प्राप रघूद्वहः । कथञ्चिल्लब्धसञ्ज्ञः सन् विललापोच्चकैःस्वरम् ।।१३१ ।। ते बिभीषणसुग्रीवशत्रुघ्नाद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ।। १३२ ।। १ बन्धव एव पद्मानि तेषु दिवाकरः सूर्यस्तत्सम्बुद्धौ । २ मृतम् । ३ विलुलन् कुन्तलालिः केशपङ्क्तिर्यासां ताः ।
रामलक्ष्मणस्नेहयोः
परीक्षा,
लक्ष्मणस्य मृत्युः ।
||२५३ ।।