________________
त्रिषष्टिशलाकापुरुषचरिते IR५४॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
कौशल्याद्या मातरश्च स्नुषाभिः सह साश्रवः । भूयो भूयोऽपि मूर्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥ १३३ ॥ प्रतिमार्ग प्रतिगृहं प्रत्यर्ल्ड क्रन्दनात्तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ।। १३४ ॥ नत्वाऽथ राममूचाते कुमारौ लवणाङ्कुशौ । भवादद्याऽतिभीतौ स्वः कनीयस्तातमृत्युना ।। १३५ ।। अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोऽपि हि ।।१३६ ॥ अनुमन्यस्व दीक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥१३७ ॥ इत्युक्त्वा राममानम्याऽमृतघोषमुनेः पुरः । उभौ जगृहतुर्दीक्षां क्रमाच्च शिवमीयतुः ।। १३८ । रामो भ्रातृविपत्त्या च वियोगेन च पुत्रयोः । मुमूर्छ भूयो भूयोऽपि मोहादेवं जगाद च ।। १३९ ।। मयाऽपमानता काचित्क्वचिच्चक्रेऽद्य बान्धव ! । कस्मादकस्मादालम्बि भवता मौनमीदृशम् ॥ १४० ॥ त्वयि ह्येवं स्थिते भ्रातः ! पुत्राभ्यामपि चोज्झितः । प्रविशन्ति च्छिद्रशते नृणां भूतशतानि हि ॥ १४१ ॥ उन्मत्तभाषिणं चैवं राममेत्य कथञ्चन । बिभीषणाद्याः सम्भूय जगदुर्गद्गदस्वरम् ।। १४२ ।। धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्विव प्रभो !। लज्जाकरमिदं तस्मादधैर्य मुञ्च सम्प्रति ।। १४३ ।। लोकप्रसिद्धमधुना सौमित्रेरौर्ध्वदैहिकम् । अङ्गसंस्कारपूर्वं हि कर्तव्यं समयोचितम् ।। १४४ ।। इत्युक्त्या कुपितो रामस्तानूचे विधुताधरः । जीवत्येष हि मे भ्राता किमिदं वो वचः खलाः !? || १४५ ॥ सर्वेषां वः सबन्धूनां ज्वलेन दाहपूर्वकम् । मृतकार्य विधातव्यं दीर्घायुस्तान्ममाऽनुजः ।। १४६ ।। भ्रातर्धातब्रूहि शीघ्रं वत्स ! लक्ष्मण ! नन्वयम् । दुर्जनानां प्रवेशोऽस्ति किं खेदयसि मां चिरम् ?||१४७॥ यद्वा खलसमक्षं न वत्स ! कोपस्तवोचितः । इत्युक्त्वांऽसे तमारोप्य ययावन्यत्र राघवः ॥ १४८ ॥
रामलक्ष्मणस्नेहयोः परीक्षा, लक्ष्मणस्य मृत्युः , रामस्योन्मत्तभाषणम् ।
॥२५४ ॥
ASPERS