________________
त्रिषष्टि
सप्तमं पर्व दशमः
शलाकापुरुषचरिते
सर्गः
IR५५॥
रामलक्ष्मणरावणचरितम् ।
नीत्वा स्नानगृहे रामः कदाऽप्यस्नपयत् स्वयम् । ततश्च तं स्वहस्तेन विलिलेप विलेपनैः ।। १४९ ।। आनाय्य दिव्यभोज्यानि पूरयित्वा च भाजनम् । कदाचित्तस्य पुरतो मुमोच स्वयमेव च ।। १५०।। कदाऽप्यारोपयदङ्के निजेऽचुम्बच्छिरो मुहुः । कदाऽप्यस्वापयत्तल्पे वाससाऽऽच्छादिते स्वयम् ।। १५१ ।। कदाऽपि स्वयमाभाष्य स्वयं स्म प्रतिभाषते । स्वयं संवाहकीभूय ममर्द च कदाचन ।। १५२ ॥ इत्यादि चेष्टा विकलाः स्नेहोन्मत्तस्य कुर्वतः । ययौ रामस्य षण्मासी विस्मृताशेषकर्मणः ॥ १५३ ॥ श्रुत्वा च तं तथोन्मत्तमिन्द्रजित्सुन्दसूनवः । खेचरा विद्विषोऽन्येऽपि रामस्येयुर्जिघांसवः ।। १५४ ।। अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाश्छलौजसः ।। १५५ ॥ रामोऽपि लक्ष्मणं स्वाङ्के निधायाऽऽस्फालयद्धनुः । वज्रावर्तमकालेऽपि संवर्तस्य प्रवर्तकम् ।। १५६ ।। तदा चाऽऽसनकम्पेन माहेन्द्रान्नाकिभिः समम् । जटायुराययौ रामं दृढात्प्राग्जन्मसौहृदात् ।। १५७ ॥ अद्याऽपि नाकिनो रामगृह्या इतिविभाषिणः । इन्द्रजित्पुत्रमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ।। १५८ ॥ अत्र देवसखा रामो हन्ता नोऽग्रेबिभीषणः । इति भीता लज्जिताश्च ते संवेगं परं दधुः ।। १५९ ।। ते मुनेरतिवेगस्य पार्थे संवेगधारिणः । उपेत्य दीक्षां जगूहुर्गृहवासपराङ्मुखाः ॥१६०॥ ततो जटायुरमरो बोधार्थ राघवस्य सः । पुरःस्थाय तरुं शुष्कं सिषेच मुहुरम्भसा ।। १६१ ।। क्षिप्त्वा करीषं दृषदि रोपयामास पद्मिनीम् । बीजान्युवापाऽकालेऽपि मृतोक्ष्णा लागलेन च ।। १६२ ।। १ अग्रे पुरः बिभीषणो यस्य इति रामविशेषणम् । २ पुरः स्थित्वा ।३ शुष्कगोमयादि । ४ मृतवृषभेण ।
रामलक्ष्मणस्नेहयोः
परीक्षा,
लक्ष्मणस्य मृत्युः , रामस्योन्मत्तभाषणम्।
।।२५५ ।।