________________
त्रिषष्टिशलाकापुरुषचरिते २५६॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
यन्त्रे च वालुकाः क्षिप्त्वा तैलार्थ पर्यपीलयत् । इत्याद्यसाधकं रामस्याऽन्यदप्युदभावयत् ।। १६३ ।। रामस्तमूचे किं शुष्कं तरुं सिञ्चसि भो! मुधा ? | फलं दूरेऽस्तु किं नाम मुसलं क्वाऽपि पुष्यति ? ॥१६४ ।। शिलायां पद्मिनीखण्डमारोपयसि मुग्ध ! किम् ?। किं वा वपसि बीजानि निर्जलेऽपि मृतैर्वृषः? ॥१६५ ॥ न वालुकाभ्यस्तैलं स्यात् किं पीलयसि मूर्ख! भोः?। अनुपायविदस्तेऽसौ प्रयासः सर्वथा वृथा ! १६६ ॥ स्मित्वा जटायुरप्यूचे यदीयदपि वेत्सि भोः ! । अज्ञानचिह्नं मृतकं स्कन्धे वहसि तर्हि किम् ? ॥१६७ ॥ सौमित्रिवपुरालिङ्ग्य रामस्तं प्रत्यभाषत । अमङ्गलं भाषसे किं ? त्यज दृष्टिपथं मम ।। १६८ ।। एवं जटायुष रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देवस्तबोधार्थ समाययौ ।। १६९ ।। स्कन्धे स्त्रीमृतकं न्यस्योपरामं विचचार सः । रामोऽप्यूचे किमुन्मत्तोऽस्येवं स्त्रीमृतकं वहन् ?।। १७० ॥ प्रत्युवाच कृतान्तोऽपि भाषसे किममङ्गलम् ?। ममैषा प्रेयसी त्वं तु किं शवं वहसि स्वयम् ?॥ १७१ ॥ मृतां जानासि मे भार्यामुह्यमानां मया यदि । निजस्कन्धस्थितं किं न मृतकं वेत्सि बुद्धिमन् ! ?॥ १७२ ॥ तेनैवं दर्शितैस्तैर्हेतुभिर्जातचेतनः । रामो दध्यौ किं नु सत्यं न जीवति ममाऽनुजः? ॥ १७३ ।। ततस्तौ लब्धबोधाय रामाय स्वमशंसताम् । देवौ जटायुःकृतान्तौ निजस्थानं च जग्मतुः ।। १७४ ।। मृतकार्य ततो रामश्चकार स्वानुजन्मनः । दीक्षां प्रपित्सुः शत्रुघ्नं राज्यादानाय चाऽऽदिशत् ।। १७५ ॥ अहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राज्यं भवपराङ्मुखः ।। १७६ ।। ततो लवणपुत्रायाऽनङ्गदेवाय राघवः । ददौ राज्यं स्वयं तुर्यपुरुषार्थाय सत्वरः ।। १७७ ।। १ निषिषेध । २ तुर्यः पुरुषार्थो मोक्षस्तस्मै ।
रामस्योन्मादः जटायुकृतान्तवदनदेवाभ्यां रामप्रबोधनम् ।
॥२५६ ॥