________________
त्रिषष्टिशलाकापुरुषचरिते २५७॥
सप्तमं पर्व दशमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दासश्रावकेणोपदिष्टस्याऽन्तिकं ययौ ।। १७८ ।। तत्र शत्रुघ्नसुग्रीवबिभीषणविराधितैः । अन्यैश्च राजभिः सार्ध रामो व्रतमुपाददे ।। १७९ ॥ रामभद्रे तु निष्क्रान्ते निष्क्रान्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ।। १८० ।। सप्तत्रिंशत्सहस्राणि प्राव्रजन वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे । १८१ ।। षष्ठ्यब्दी गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षिः पूर्वाङ्गश्रुतभावितः ।। १८२ ।। अथ रामः प्रच्छन्नैकविहारो गुर्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ।। १८३ ।। तस्यामेव विभावर्यां तत्र ध्यानजुषः सतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ।। १८४ ।। पश्यंश्चतुर्दशरज्जुप्रमं विश्वं करस्थवत् । देवाभ्यां हतमज्ञासीद्गतं च नरकेऽनुजम् ।। १८५ ।। इदं च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ।। १८६ ।। वसुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममाऽनुजः । तत्राऽप्यकृतकृत्योऽसावेवमेव व्यपद्यत ।। १८७ ।। भवेऽस्मिन्मे वसुदत्तजीवोऽभूल्लक्ष्मणोऽनुजः । तत्राऽप्यमुष्य कौमारे मुधाऽगाच्छरदां शतम् ।। १८८ ॥ शतत्रयं मण्डलित्वे चत्वारिंशत्तु दिग्जये । वर्षकादशसहस्राः सार्धा राज्येऽब्दषष्टि च ।। १८९ ।। द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । ययावविरतस्यैव केवलं नरकावहम् ।। १९०।। न दोषो देवयोः कोऽपि मायावधकयोस्तयोः । विपाकः कर्मणामीदृग्भवत्येव शरीरिणः ।। १९१ ॥ एवं विचिन्तयन्नामः कर्मच्छेदेऽधिकोद्यतः । तपःसमाधिनिष्ठोऽभून्निर्ममः सन् विशेषतः ।। १९२ ।। १ मायया वधकोंः ।
रामेण संयमतपोऽभिग्रहादीनां धारणम् ।
॥२५७ ॥