________________
त्रिषष्टिशलाका
पुरुषचरिते
| सप्तमं पर्व | दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
२५८॥
अथ षष्ठोपवासान्ते प्राविशत् पारणाय सः । युगमात्रदत्तदृष्टिर्नगरे स्यन्दनस्थले ।। १९३ ॥ निशाकरमिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीनाः समापेतुः पौराः प्रचुरसम्मदाः ।। १९४ ।। पौर्यः स्वस्वगृहद्वारि भिक्षादानाय तस्य च । विचित्रभोज्यपूर्णानि भाजनानि पुरो दधुः ।। १९५ ॥ पौराणां हर्षतस्तत्र तुमुलोऽभूत्तथा यथा । स्तम्भान् बमझुः करिणो ययुश्चोत्कर्णतां हयाः ।। १५६ ।। रामोऽप्युज्झितधर्माभिरतत्वात् पौरढौकितम् । आहारं नाऽग्रहीत्तेभ्योऽभ्यागात्तु नृपवेश्मनि ।। १९७ ।। तत्र चोज्झितधर्मेणाऽऽहारेण प्रत्यलम्भयत् । प्रतिनन्दिनृपो रामं विधिवद् बुभुजे च सः ।। १९८ ।। अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ।। १९९ ॥ मा भूद् भूयः पुरक्षोभः सङ्घो मे च मा स्म भूत् । इति बुद्ध्या शुद्धबुद्धिः सोऽभिग्रहमिमं व्यधात् ॥२०० ।। अरण्येऽत्रैव चेद्भिक्षाकाले भिक्षोपलप्स्यते । तदानीं पारणं कार्यमस्माभिर्नाऽन्यथा पुनः ।। २०१ ॥ इत्यभिग्रहभृद्रामो निरपेक्षो वपुष्वपि । परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः ।। २०२ ।। तत्राऽन्येधुर्विपर्यस्तशिक्षणाऽश्वेन वेगिना । आकृष्यमाण आयासीत्प्रतिनन्दिनरेश्वरः ॥२०३ ।। पङ्के नन्दनपुण्याख्यसरसोऽश्वो ममज्ज सः । समापपाताऽनुपदं सैन्यं च प्रतिनन्दिनः ।। २०४ ।। पङ्कात्तमश्वमुत्तार्य शिबिरं न्यस्य तत्र च । स्नात्वा च स नृपश्चक्रे भोजनं सपरिच्छदः ।। २०५ ॥ तदा च पारितध्यानो रामर्षिः पारणेच्छया । तत्राऽऽजगाम भगवानभ्युत्तस्थौ च तं नृपः ।। २०६ ॥ अवशिष्टैर्भक्तपानैः स रामं प्रत्यलम्भयत् । कृतपारणके तस्मिन् रत्नवृष्टिरभूद्दिवः ।।२०७ ।। १ प्रचुरः सम्मदो हर्षो येषां ते । २ उज्झितो धर्माय य आहारस्तस्मिन्नासक्तत्वात् । ३ विपरीतशिक्षण ।
| रामेण संयमतपोऽभिग्र
हादीनां
धारणम् ।
।। २५८ ॥