________________
त्रिषष्टिशलाकापुरुषचरित ।२५९॥
| सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
रामर्षिर्देशनां चक्रे प्रतिनन्द्यादयोऽथ ते । बभूवुः श्रावकाः सम्यग्द्वादशव्रतधारिणः ।। २०८ ।। ततः प्रभृति तत्रैव रामस्तस्थौ चिरं वने । देवीभिर्वनवासाभिः पूज्यमानो महातपाः ।। २०९ ।। मासेनैकेन मासाभ्यां मासैस्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया ।। २१० ।। पर्यङ्कस्थः कदाऽप्यस्थात् प्रलम्बितभुजोऽन्यदा । कदाऽप्युत्कटिकासीन ऊर्ध्वबाहुः कदाचन ।। २११ ।। अङ्गुष्ठस्थोऽन्यदा तस्थौ पार्णिस्थश्च कदाऽपि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥२१२ ।। विहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ।। २१३ ।। तामध्यासीच्छिलां रामः क्षपकश्रेणिमाश्रितः । शुक्लध्यानान्तरं भेजे निशायां प्रतिमाधरः ॥२१४ ।। तदा चाऽवधिना ज्ञात्वा सीतेन्द्रः पर्यचिन्तयत् । अयं भवी भवति चेद्रामो युज्येऽमुना पुनः ॥ २१५ ।। अनुकूलैरुपसर्गः क्षपकश्रेणिवर्तिनः । उपद्रवं करोम्यस्य यथा स्यान्मत्सुहृत्सुरः ॥२१६ ।। इति सञ्चिन्त्य सीतेन्द्र उपरामं समाययौ । विचक्रे च महोद्यानं वसन्तर्तुविभूषितम् ।। २१७ ।। चुकूज कोकिलाकुलं ववौ च मलयानिलः । रणन्तो भ्रमरा भ्रमुः कुसुमामोदमोदिनः ।। २१८ ।। चूतचम्पककङ्कील्लिपाटलाबकुलादयः । दधुः सद्योऽपि पुष्पाणि नव्यास्त्राणि मनोभुवः ।। २१९ ।। सीतारूपं च सीतेन्द्रो विकृत्य स्त्रीजनानपि । ऊचे प्रिय ! प्रिया तेऽस्मि सीतेह समुपस्थिता ।। २२० ।। रक्तं त्यक्त्वा तदानीं त्वामहं पण्डितमानिनी । प्राव्रज नाथ ! पश्चाच्च पश्चात्तापो ममाऽत्यभूत् ।। २२१ ।। विद्याधरकुमारीभिराभिरद्याऽहमर्थिता । प्रसीद नाथ ! स्वं नाथं राम नाथीकुरुष्व नः ।। २२२ ।।
रामस्य सीतेन्द्रेणोपसर्गकरणम् ।
||२५९ ।।
१संसारी।