________________
त्रिषष्टिशलाकापुरुषचरिते IR६०॥
सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् ।
त्वं च मुञ्च परिव्रज्यां रामस्य महिषी भव । त्वदादेशात्तस्य पल्यो भविष्यामोऽधुना वयम् ।। २२३ ।। अमूर्विद्याधरवधूस्तदुद्वह रघूद्वह ! । प्राग्वत्सह त्वया रंस्ये तां सहस्वाऽवमाननाम् ।। २२४ ।। इति ब्रुवाणे सीतेन्द्रे वैक्रिय्यः खेचरस्त्रियः । सङ्गीतं विविधं चक्रुः स्मरोज्जीवनभेषजम् ।। २२५ ।। सीतेन्द्रवचनैस्तैश्च तेन सङ्गीतकेन च । वसन्तेन च नाऽक्षुभ्यद्रामभद्रमहामुनिः ।। २२६ ।। माघस्य शुक्लद्वादश्यां तदा यामेऽन्तिमे निशि । उदपद्यत रामर्षेः केवलज्ञानमुज्ज्वलम् ॥ २२७ ।। रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनोऽन्ये च विदधुर्विधिपूर्वकम् ।। २२८ ।। दिव्यस्वर्णाम्बुजासीनो दिव्यचामरराजितः । दिव्यातपत्रवान्रामो विदधे धर्मदेशनाम् ।। २२९ ।। देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमित्रिरावणगति पृष्टो रामर्षिरभ्यधात् ।। २३० ।। अधुना नरके तुर्ये सशम्बूको दशाननः । लक्ष्मणश्चाऽस्ति गतयः कर्माधीना हि देहिनाम् ।। २३१ ।। नरकायुश्चाऽनुभूय तौ दशाननलक्ष्मणौ । नगर्या विजयावत्यां प्राग्विदेहविभूषणे ।। २३२ ।। सुनन्दरोहिणीपुत्रौ जिनदाससुदर्शनौ । भविष्यतोऽर्हद्धर्मं च सततं पालयिष्यतः ।। २३३ ।।
॥युग्मम् ॥ ततो विपद्य सौधर्मे त्रिदशौ तौ भविष्यतः । च्युत्वा च विजयापुर्यां श्रावको भाविनौ पुनः ।। २३४ ।। ततोऽपि मृत्वा पुरुषौ हरिवर्षे भविष्यतः । तौ चाऽवसानमासाद्य देवलोकं गमिष्यतः ।। २३५ ॥ च्युत्वा च विजयापुर्यां जयकान्तजयप्रभौ । कुमारवार्तराड्लक्ष्म्योस्तौ कुमारौ भविष्यतः ।। २३६ ।। १ विक्रियया समुत्पन्नाः ।
रामस्य सीतेन्द्रेणीपसर्गकरणम्, केवलप्राप्तिश्च लक्ष्मणदीनां भाविभववर्णनम् ।
||२६० ॥