________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२६१ ॥
जिनोक्तं संयमं तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्तके कल्पे भविष्यत उभावपि ।। २३७ ।। तदा त्वमच्युताच्च्युत्वा क्षेत्रे चाऽत्रैव भारते । सर्वरत्नमतिर्नाम चक्रवर्ती भविष्यसि ।। २३८ ॥ च्युत्वा तौ भाविनाविन्द्रायुधमेघरथाभिधौ । सुतौ ते त्वं परिव्रज्य वैजयन्ते व्रजिष्यसि ।। २३९ ॥ इन्द्रायुधः स तु जीवो रावणस्य भवत्रयम् । शुभं भ्रान्त्वा तीर्थकरगोत्रकर्माऽर्जयिष्यति ॥ २४० ॥ ततो रावणजीवः स तीर्थनाथो भविष्यति । वैजयन्ताच्च्युतस्तस्य भावी गणधरो भवान् ।। २४१ ॥ ततस्तौ यास्यतो मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुर्मेघरथो व्रजिष्यति गतीः शुभाः ।। २४२ ॥ ततश्च पुष्करद्वीपे प्राग्विदेहविभूषणे । नगर्यां रत्नचित्रायां चक्रवर्ती भविष्यति ॥ २४३ ॥ चक्रवर्तिश्रियं भुक्त्वा परिव्रज्य क्रमेण च । स तीर्थनाथो भविता निर्वाणं च प्रपत्स्यते ।। २४४ ।। एवमाकर्ण्य सीतेन्द्रो रामभद्रं प्रणम्य च । ययौ प्राक्स्नेहवशतो दुःखभाग्यत्र लक्ष्मणः ।। २४५ ।। सिंहादिरूपैर्विकृतैस्तत्र शम्बूकरावणौ । लक्ष्मणेन समं क्रुद्धौ युध्यमानौ ददर्श सः ।। २४६ ।। नैवं वो युध्यमानानां दुःखं भावीति वादिनः । परमाधार्मिकाः क्रुद्धा अग्निकुण्डेषु तान्न्यधुः ।। २४७ ।। दह्यमानास्त्रयोऽप्युच्चै रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात् ॥ २४८ ॥ विलीनदेहास्तत्राऽपि भ्राष्ट्रे चिक्षिपिरे चिरम् । तडत्तडिति शब्देन स्फुटन्तो दुद्रुवुः पुनः ।। २४९ ।। इत्यादि दुःखं तेषां स प्रेक्ष्योवाचाऽसुरानिति । किं रे न वित्थ यदमी आसन् पुरुषपुङ्गवाः ? ।। २५० ।। अपयाताऽसुरा ! दूरं मुञ्चतैतान्महात्मनः । निषिध्येत्यसुरानूचे सोऽथ शम्बूकरावणौ ।। २५१ ।।
सप्तमं पर्व
दशमः
सर्गः
रामलक्ष्मणरावणचरितम् ।
लक्ष्मणादीनां भाविभव
वर्णनम् ।
।। २६१ ।।