________________
सप्तमं पर्व दशमः
त्रिषष्टिशलाकापुरुषचरिते ॥२६२॥
सर्गः
रामलक्ष्मणरावणचरितम् ।
युवाभ्या तत्कृत पूर्व यनम नरक गतौ । पूर्ववैर किमद्याऽपि दृष्टोदर्कं न मुञ्चितम् ।। २५२ ।। तावप्येवं निषिध्येन्द्रः सौमित्रे रावणस्य च । रामकेवलिनाख्यातमाचख्यौ बोधहेतवे ।। २५३ ।। तावप्यथ बभाषाते साध्वकार्षीः कृपानिधे !। भवच्छुभोपदेशेन जाता नो दुःखविस्मृतिः ।। २५४ ।। प्राग्जन्मोपार्जितैस्तैः क्रूरैः कर्मभिरर्पितः । दीर्घो नौ नरकावासस्तद् दुःखं कोऽपनेष्यति ? || २५५ ।। इत्युक्त्या करुणापूर्णः सीतेन्द्रः प्रत्यवोचत । नेष्यामि सुरलोके त्रीनपि वो नरकादितः ।। २५६ ।। इत्युक्त्वा पाणिनोद्दधे स तांस्त्रीनपि ते पुनः । विशीर्य कणशः पेतुः पाणेः पारदवत्क्षणात् ।। २५७ ।। भूयोऽपि मिलिताङ्गांस्तानुद्दधे स यथा यथा । पुनरेव पतन्ति स्म पूर्ववत्ते तथा तथा ।। २५८ ।। ततः सीतेन्द्रमूचुस्ते भवत्यधिकमेव नः । दुःखमुद्धियमाणानां तन्मुञ्चाऽस्मान् दिवं व्रज ।। २५९ ॥ तान्मुक्त्वेयाय सीतेन्द्रो रामं नत्वा ततोऽगमत् । शाश्वतार्हत्तीर्थयात्राकृते नन्दीश्वरादिषु ॥ २६० ।।
गच्छन्नथो देवकुरुप्रदेशे निरीक्ष्य भामण्डलराजजीवम् ।
प्रास्नेहयोगात् प्रतिबोध्य सम्यग् निजं स सीतेन्द्र इयाय कल्पम् ।। २६१ ॥ उत्पन्ने सति केवले स शरदां पञ्चाधिकां विंशति, मेदिन्यां भविकान् प्रबोध्य भगवाञ्च्छ्रीरामभट्टारकः । आयुश्च व्यतिलय पञ्चदश चाऽब्दानां सहस्रान् कृती, शैलेशी प्रतिपद्य शाश्वतसुखानन्दं प्रपेदे पदम् ॥२६२ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमे पर्वणि रामनिर्वाणगमनो
नाम दशमः सर्गः । श्रीराम-लक्ष्मण-रावण चरितसंवलितं जैनरामायणं समाप्तम् ।) १ दृष्ट उदर्कः परिणामो यस्य तत् ।
| सीतेन्द्रेण लक्ष्मणादीनां प्रबोधनम्, रामस्य निर्वाणम् ।
।।२६२ ।।