________________
एकादशः सर्गः ।
श्रीनमिनाथचरितम् ।
त्रिषष्टिशलाकापुरुषचरिते ॥ २६३ ॥
सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् ।
नमिजिनस्य पूर्वभवः ।
*HARAHASRASHRS-RSS
नमो नमिजिनेन्द्राय सुरेन्द्रमहिताङ्घये । कर्मद्रुमगजेन्द्राय धरित्रीकल्पशाखिने ।। १ ।। तस्यैव कीर्तयिष्यामश्चरित्रमतिपावनम् । विश्वस्याऽप्युपकाराय परलोकेहलोकयोः ।। २ ।। जम्बूद्वीपेऽत्रैव प्रत्यग्विदेहे भरताभिधे । विजये सम्पदा कोशः कौशाम्बी नामतोऽस्ति पू: ।।३।। आखण्डल इवाऽखण्डशासनस्तत्र चाऽभवत् । सिद्धार्थीकृतसर्वार्थी सिद्धार्थो नाम पार्थिवः ।। ४ ।। गाम्भीर्यं धैर्यमौदार्य वीर्यं बुद्धिरथाऽपरे । अन्योऽन्यस्पर्द्धयेवाऽऽसन् सर्वे तस्याऽद्भूता गुणाः ।। ५ ।। सम्पद्विस्तारमापन्ना तस्याऽत्युन्नतिशालिनः । अभूद्विश्वोपकाराय छाया मार्गतरोरिव ॥ ६ ॥ धर्मो मनसि तस्यैको नित्यमत्यन्तनिर्मले । निवासं कारयामास राजहंस इवाऽम्बुजे ॥७॥ भवाद्विरक्तः सोऽन्येधुरुत्सृज्य तृणवच्छ्रियम् । सुदर्शनमुनेः पादमूले दीक्षामुपाददे ।। ८ ।। आर्जयत्स्थानकैः कैश्चित्तीर्थकृन्नाम कर्म सः । सम्यग्व्रतं पालयित्वा मृत्वाऽगादपराजिते ।। ९ ।। इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । नगरी मिथिलेत्यस्ति धर्माशिथिलनागरा ।। १० ।। प्राकारवलयो रत्नस्वर्णहाट्टगर्भितः । तस्यामाभाति सर्वस्वसमुद्गक इवाऽवनेः ।। ११ ॥ १ सुरेन्द्रेण पूजितावशी चरणौ यस्य तस्मै । २ असिद्धार्थान् सिद्धार्थीकृताः, सर्वेऽर्थिनो याचकाःयेन सः । ३ स्वार्थज्यन्तस्य रूपम् । ४ धर्मेऽशिथिला अनलसा नागराः पौरा यस्यां सा ।
॥२६३ ।।