________________
त्रिषष्टिशलाकापुरुषचरिते IR६४॥
| सप्तमं पर्व
एकादशः | सर्गः श्रीनमिनाथ चरितम् ।
परितो रत्नखचितास्तस्यामुद्यानदीर्घिकाः । तद्रुमपरागेण यान्ति पङ्किलतां यदि ।। १२ ।। तस्यां सर्वारिविजयी विजयो नाम पार्थिवः । बभूव भूवासवतां दधानः परया श्रिया ।। १३ ।। भ्रूभङ्गमप्यकृत्वैवाऽसन्नाह्याऽपि वरूथिनीम् । स लीलया पराजिग्ये परान् यून इव स्मरः ।। १४ ।। स सागर इवाऽगाधोऽभिरामश्चन्द्रमा इव । समीरण इवौजस्वी तेजस्वी भानुमानिव ।। १५ ॥ वप्रेति नामतस्तस्य सर्वान्तःपुरमण्डनम् । मण्डनीभूतशीलाऽभूद् भूरिवाऽङ्गवती प्रिया ।। १६ ॥ गङ्गेव स्वच्छगम्भीरा जगतोऽपि हि पावनी । ज्योत्स्नेव नयनानन्ददायिनी सा व्यराजत ।। १७ ।। ये ये सूनृतशीलाद्या निरक्ष्यन्ते गुणाः किल । अवदातैरभूत्तैस्तैः स्त्रीणां सैका निदर्शनम् ।। १८ ।। इतश्च सिद्धार्थजीवो विमाने सोऽपराजिते । स्वमायुः पूरयामास त्रयस्त्रिशार्णवोपमम् ॥ १९ ॥ च्युत्वाऽश्वयुक्पूर्णिमायामश्चकिन्यामवातरत् । वप्रादेव्याः स उदरे कृतोद्योतो जगत्त्रये ॥ २० ॥ तदा च यामिनीशेषे वप्रादेवी चतुर्दश । उदैवत महास्वप्नांस्तीर्थकृज्जन्मसूचकान् ।। २१ ।। पितुर्मनोरथ इव गर्भः प्रववृधे क्रमात् । अतिलावण्यजननो जनन्याः सुखकृच्च सः ।। २२ ॥ पर्णे काले नभःकृष्णाष्टम्यां भे चाऽश्वदेवते । नीलोत्पलाङ्कं स्वर्णाभं देवी सुतमसूत सा ।। २३ ।। अथैत्याऽऽसनकम्पेन चक्रुर्देवीकुमारयोः । तदैव सूतिकर्माणि विधिवद्दिक्कुमारिकाः ।। २४ ॥ शक्रो निन्ये मेरुमूर्धन्यच्युताद्याश्च वासवाः । चतुःषष्टिरपि तीर्थाम्भोभिरस्नपयन् प्रभुम् ।। २५ ।। १ अङ्गचती मूर्तिमती भूः पृथ्वीव । २ आश्विनस्य पूर्णिमायाम् । ३ अश्विनीनक्षत्रे । ४ श्रावणकृष्णाष्टम्याम् । ५ अश्वो देवता यस्य तस्मिन्नश्विनीनक्षत्र इत्यर्थः ।
नमिजिनेन्द्रस्य च्यवनजन्मकल्याणकवर्णनम् ।
||२६४ ॥