________________
त्रिषष्टिशलाकापुरुषचरिते ।२६५॥
सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् ।
स्नपनान्ते जगन्नाथमभ्यर्च्य कुसुमादिभिः । रचितारात्रिकः शक्रः इति स्तोतुं प्रचक्रमे ॥ २६ ॥ व्याहर्ता मोक्षमार्गस्य संहर्ता सर्वकर्मणाम् । प्रहर्ता च कषायाणां जय त्वं परमेश्वर! ॥ २७ ॥ कुमतस्याऽपनेतारं नेतारं जगतामपि । सद्बोधस्य प्रणेतारं त्वां नमामि जगद्गुरो ! ।। २८ ।। विश्वैश्वर्यस्याऽधिक; न्यकर्ता विश्वपाप्मनाम् । अविकोंपकर्ता च सनाथं भवता जगत् ।। २९ ।। धर्मबीजसमुद्धत्रै धर्त्रेऽतिशयसम्पदाम् । श्रुतस्कन्धविधात्रे च भगवन् ! भवते नमः ।। ३० ॥ प्रत्यादेष्टुः कुमार्गाणामादेष्टुर्मुक्तिवर्त्मनः । धर्मः प्रभविता त्वत्त उपदेष्टुरतः परम् ॥ ३१ ॥ नव्यतीर्थप्रतिष्ठातुरनुष्ठातुस्तपःश्रियाम् । प्रभो ! जगदधिष्ठातुर्भवतः किङ्करा वयम् ।। ३२ ॥ आदातर्यपवर्गस्य विश्वस्याऽभयदातरि । त्वयि त्रैलोक्यशरणे पँपन्नशरणोऽस्म्यहम् ।। ३३ ।। अस्मिन् भवे यथाभूस्त्वं प्रभुर्मम जगत्पते ! । भवान्तरेष्वपि तथा भूया नाऽन्यो मनोरथः ।। ३४ ।। इति स्तुत्वा जगन्नाथं पुनरादाय वासवः । मुमोच वप्रास्वामिन्याः पार्श्वे नीत्वा यथास्थिति ।। ३५ ॥ राजाऽपि विजयः प्रातः सूनोर्जन्ममहोत्सवम् । चकार कारामोक्षादिपूर्वकं परया मुदा ॥३६ ॥ प्रभौ गर्भस्थिते रुद्धा पुर्यासीन्मिथिलाऽरिभिः । अधिप्रसादमारोहद्वप्रादेवी च तत्क्षणम् ॥३७ ॥ वप्रां प्रेक्ष्य च तद्गर्भानुभावाद्विजयं नृपम् । यन्नेमुर्द्विष इत्यस्य नमिरित्यभिधा ददे ।।३८ ।। पाल्यमानोऽथ धात्रीभिः शक्रादिष्टाभिरन्वहम् । नमिनाथः प्रववृधे निशानाथ इवाऽपरः ॥ ३९ ॥ १ कथयिता-वक्ता । २ दूरं कर्तारम् नाशकमितियावत् । ३ नायकम् । ४ कर्तारम् । ५ अविकारिणा । ६ आ समन्ताद्दातरि । ७ प्रपन्नं शरणं येन सः । ८ स्वामी जातोऽसि ।
| शक्रास्तुतिः ।
॥२६५ ।।