________________
त्रिषष्टिशलाकापुरुषचरिते IR६६॥
सप्तमं पर्व | एकादशः सर्गः श्रीनमिनाथ चरितम् ।
विमुक्तशैशवः स्वामी धषि दश पञ्च च । उच्छ्रिताङ्गः पर्यणैषीत् कन्यां पितृनिदेशतः ।। ४० ।। सार्धवर्षसहस्रे द्वे व्यतिक्रम्य स जन्मतः । दत्तं पित्राऽऽददे राज्यं कर्मभोगफलं विदन् ।। ४१ ॥ पञ्चस्वब्दसहस्रेषु राज्याधातेष्वथ प्रभुम् । तीर्थं प्रवर्तयेत्यूचुरेत्य लोकान्तिकामराः ।। ४२ ।। निवेश्य सुप्रभं नाम पुत्र राज्ये नभिप्रभुः । प्रददौ वार्षिकं दानं द्रविणैजृम्भकाहृतैः ।। ४३ ।। सुप्रभाधैर्नृपैः शक्रादिभिर्देवैर्वृतः प्रभुः । देवकुर्वा शिबिकया सहस्राम्रवणं ययौ ।। ४४ ।। कदम्बचुम्बनासक्तमधुव्रतकदम्बकम् । मल्लिकाकुसुमोच्चायव्याकुलोद्यानपालकम् ।। ४५ ॥ विगलत्पाटलापुष्पपाटलीभूतभूतलम् । कामुकस्रस्तरीभूतशिरीषकुसुमोत्करम् ।। ४६ ।। वहमानारघट्टोत्थैः प्रोच्छलच्छीकरोत्करैः । ग्रीष्मेऽपि दर्शिताब्दतु तद्वनं प्राविशत्प्रभुः ॥ ४७ ।।
॥त्रिभिर्विशेषकम् ।। आषाढकृष्णनवम्यामश्चिन्यां चरमेऽहनि । समं राज्ञां सहस्रेण षष्ठेन प्राव्रजत् प्रभुः ।। ४८ ॥ तदोत्पन्नमनोज्ञानो द्वितीयेऽहनि पारणम् । स क्षरेय्या वीरपुरे चक्रे दत्तनृपौकसि ॥ ४९ ।। चक्रे च विबुधैस्तत्र वसुधारादि दत्तराट् । पीठं च व्यहृताऽन्यत्र नवमासांस्ततः प्रभुः ।। ५० ॥ ततः सहस्राम्रवणं दीक्षास्थानं तदा ययौ । षष्ठेन बकुलस्याऽधस्तस्थौ च प्रतिमाधरः ॥५१ ।। १ कदम्बपुष्याणां चुम्बने आसक्तो मधुव्रतानां भ्रमराणां कदम्बकः समूहो यस्मिस्तत् । २ मल्लिकापुष्पाणामवचये व्याकुला उद्यानपाला यस्मिस्तत् । ३ स्रस्तरमासनं शय्या वा । ४ अरघझे जलयन्त्रम् । ५ दर्शितोऽब्दाना मेघानामृतुर्येन तत् ।
नमिनाथस्य शैशवविवाह प्रव्रज्यादीनां वर्णनम् ।
॥२६६ ॥