________________
त्रिषष्टिशलाकापुरुषचरिते IR६७॥
सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् ।
मार्गस्य शुक्लैकादश्यामश्विन्यां भे नमिप्रभोः । घातिकर्मक्षयादाविरभूत् केवलमुज्ज्वलम् ।। ५२ ॥ सद्योऽपि देवाः समवसरणं विदधुस्ततः । अशीत्यग्रशतधनुस्तुङ्गाशोकद्रुभूषितम् ।। ५३ ॥ तत्र प्रदक्षिणीकृत्याऽशोकं तीर्थाय चाऽनमत् । न्यषदत्प्राङ्मुखः पूर्वरत्नसिंहासने प्रभुः ।। ५४ ।। रत्नसिंहासनस्थानि प्रतिबिम्बानि च प्रभोः । विचक्रुर्व्यन्तरसुरा दिक्ष्वन्यास्वपि तत्क्षणम् ।। ५५ ।। अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । भगवन्तं नमस्कृत्य सौधर्मेन्द्रोऽस्तवीदिति ।। ५६ ॥ केवलज्ञानसझेन चक्षुषा वीक्षसेऽखिलम् । जगदेतत्तदेवं ते त्रिनेत्राय नमः प्रभो ! ।। ५७ ।। पञ्चत्रिंशदतिशयवचसे परमेष्ठिने । चतुस्त्रिशदतिशयान्विताय भवते नमः ।। ५८ ॥ मालवकैशिकीमुख्यग्रामरागमनोरमाम् । सर्वभाषानुगां नाथ! तव वाचमुपास्महे ।। ५९ ।। त्वद्दर्शनात् प्रणश्यन्ति कर्मपाशाः शरीरिणाम् । ताावलोकनान्नागपाशा इव दृढा अपि ॥६० ॥ त्वद्दर्शनाद्देहभाजोऽधिरोहन्ति शनैः शनैः । निःश्रेणिमिव मोक्षस्य गुणस्थानकमालिकाम् ॥६१ ।। स्मृतः श्रुतः स्तुतो ध्यातो दृष्टः स्पृष्टो नमस्कृतः । येन तेन प्रकारेण स्वामिन् ! भवसि शर्मणे ।। ६२ ।। स्वामिन् ! पुण्यानुबन्धीनि पूर्वपुण्यानि नः खलु । यस्त्वं दृग्गोचरं नीतोऽसाधारणगतिप्रदः ।। ६३ ।। यथा तथा ममाऽस्त्वन्यत् स्वर्गराज्यादि सर्वतः । मा जातु हृदयाद्यान्तु नाथ ! त्वद्देशनागिरः ।।६४ ।। इति स्वामिगुणस्तोत्रं विधीय विरते हरौ । जगत्त्रयगुरुधर्मदेशनामकरोदिमाम् ।।५।। असारः खलु संसारः चलदूर्मिचलं धनम् । विद्युद्विलाससदृशं शरीरमपि नश्वरम् ।।। ६६ ।। १ पञ्चत्रिंशदतिशया यस्मिन्नेतादृशं वचो यस्य तस्मै ।
नमिजिनस्य केवलोत्पत्तिः ।
।।२६७ ॥