________________
त्रिषष्टिशलाकापुरुषचरिते ।।२६८॥
| सप्तमं पर्व | एकादशः सर्गः श्रीनमिनाथ चरितम् ।
अनास्था सर्वथा तेषु तद्विधाय विचक्षणः । यतेत यतिधर्माय मुमुक्षुर्मोक्षवर्मने ।। ६७ ।। अशक्तस्तद्विधान चेत्तदाकाङ्क्षी तथाऽपि हि । सम्यक्ड्रावकधर्मायोत्तिष्ठेत द्वादशात्मने ।। ६८ ॥ नयेन्नित्यमहोरात्रं श्रावकस्त्वप्रमद्वरः । धाभिरिति चेष्टाभिर्मनोवाक्कायजन्मभिः ।। ६९ ।। ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्माकिंकुलश्चाऽस्मि ? किंव्रतोऽस्मीति च स्मरन् ॥७० ।। शुचिः पुष्यामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥७१ ॥ प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ।। ७२ ॥ ततो गुरुणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ।।७३ ॥ अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ।। ७४ ॥ आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥७५ ।। ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माविरोधेन विदधीताऽर्थचिन्तनम् ।।७६ ।। ततो मध्याह्निकी पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ।। ७७ ।। ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ।।७८ ।। न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाऽब्रह्मवर्जकः ॥ ७९ ॥ निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् । महात्मनां मुनीनां हि तन्निवृत्ति परामृशन् । ८० ।। १ संसारादिषु । २ चारित्राकाङ्क्षी । ३ को धर्मो यस्य स तथा । ४ आमिषं नैवेद्यम् । ५ नार्यङ्गस्य सत्तत्त्वं याथार्थ्य वक्ष्यमाणमशुचित्वादि । ६ विचारयन् ।
देशना।
।।२६८॥