________________
त्रिषष्टिशलाकापुरुषचरिते २६९॥
सप्तमं पर्व एकादशः |सर्गः श्रीनमिनाथ चरितम् ।
यकृच्छकृन्मलश्लेष्ममज्जाऽस्थिपरिपूरिताः । स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ।। ८१ ।। बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ।। ८२ ।। स्त्रीशस्त्रेणाऽपि चेत्कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नाऽऽदत्त स मूढधीः? ।। ८३ ।। सङ्कल्पयोनिनाऽनेन हहा ! विश्वं विडम्बितम् । तद् दुःखनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ।। ८४ ।।
॥चतुर्भिः कलापकम् ।। यो यः स्याद्बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद्दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ।। ८५ ।। दुःस्थां भवस्थितिं स्थेम्ना सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्ग तेष्वपवर्ग विमार्गयेत् ।। ८६ ।। जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताऽविमूढधीः? || ८७ ।। जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ।। ८८ ।। त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन्माधुकरी वृत्तिं मुनिचर्या कदाऽऽश्रये ?।। ८९ ।। त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ?।। ९० ।। महानिशायां प्रकृतकायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ?।। ९१ ।। वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदा घ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ?।। ९२ ।। शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ?|| ९३ ॥ १ चर्मगोणी । २ गृध्रशृगालाभ्यां रक्षणम् । ३ कामेन । ४ तत्तस्मात् अस्य कामस्य मूलं सङ्कल्पं अहं दुःखनामि खननं करोमि । ५ स्थैर्येण । ६ निसर्गसुखस्य सर्गः उत्पत्तिर्यस्मिन्नेतादृशमपवर्ग मोक्षम् । ७ दासः । ८ प्रकर्षेण कृतः कायोत्सर्गो येन तस्मिन्मयि ।
देशना।
।।२६९ ।।