________________
त्रिषष्टिशलाकापुरुषचरिते २७०॥
सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ
चरितम् ।
अधिरोढुं गुणेश्रेणी निःश्रेणी मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ।। ९४ ॥
॥सप्तभिः कुलकम् ॥ इत्यहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ।। ९५ ।। श्रुत्वेमा देशनां भर्तुर्बहवः प्राव्रजज्जनाः । कुम्भादयो गणधरास्तत्र सप्तदशाऽभवन् ।। ९६ ॥ देशनान्ते जगद्भर्तुः कुम्भो व्यधित देशनाम् । तद्देशनान्ते नत्वेश शक्राद्याः स्वं पदं ययुः ।। ९७ ।। तत्तीर्थजन्मा भूकुटिर्यक्षस्त्र्यक्षश्चतुर्मुखः । स्वर्णवर्णो वृषरथश्चतुर्भिर्दक्षिणैर्भुजैः ।। ९८ ।। धृतमातुलिङ्गशक्तिमुद्गराऽभयदैर्युतः । वामैः पुनर्नकुलकपशुवज्राऽक्षसूत्रिभिः ।। ९९ ॥
॥युग्मम् ।। तथैव देवी गान्धारी श्वेताङ्गी हंसवाहना । दोा वरदखङ्गिभ्यां दक्षिणाभ्यां विराजिता ।। १०० ॥ वामाभ्यां बीजपूरिभ्यां बाहुभ्यामुपशोभिता । अभूतामित्युभे भर्तुर्नमेः शासनदेवते ।। १०१ ॥ ताभ्याममुक्तसान्निध्यो विजहार वसुन्धराम् । सार्धे वर्षसहस्रे द्वे नवमासोनिते विभुः ॥ १०२ ॥ प्रभोरभूवन् साधूनां सहस्राण्यथ विंशतिः । व्रतिनीनां पुनरेकचत्वारिंशत्सहस्यपि ।। १०३ ।। चतुर्दशपूर्वभृतां सार्धं शतचतुष्टयम् । अवधिज्ञानभाजां तु सहस्रं षट् शताधिकम् ।। १०४ ॥ षष्ट्यग्रा द्वादशशती मनःपर्ययशालिनाम् । शतानि षोडशः पुनः केवलज्ञानधारिणाम् ।। १०५ ।। जातवैक्रियलब्धीनां सहस्राः पञ्च सङ्ख्यया । तथा सहस्रमेकं तु वादलब्ध्युपशोभिनाम् ॥ १०६ ॥ १ परः श्रेष्ठो य आनन्दः स एव लता तस्या कन्दाः मूलभूतास्तान् । २ आचरणाम् । ३ बीजपूरमस्ति अनयोरिति ।
| नमिनाथस्य | देशनापरिवार वर्णनम् ।
।। २७०॥