SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।२७१॥ श्रावकाणां लक्षमेकं सहस्राणि च सप्ततिः । श्राविकाणां त्रिलक्ष्यष्टचत्वारिंशत्सहस्रयुक् ।। १०७ ॥ मोक्षकालमथ ज्ञात्वा सम्मेताद्रिमगात्प्रभुः । समं मुनिसहस्रेणाऽनशनं प्रत्यपादि च ।। १०८ ।। मासान्ते वैशाखकृष्णदशम्यामश्विनीयुजि । समं तैर्मुनिभिः स्वामी प्रपेदे पदमव्ययम् ।। १०९ ॥ कौमारेऽब्दानां सहस्रौ सार्धी राज्ये तु पञ्च ते । व्रते सा| सहस्रौ चेत्ययुतायुर्नमिप्रभुः ।। ११०॥ मुनिसुव्रतनिर्वाणान्निर्वाणं श्रीनमिप्रभोः । वर्षाणां षट्सु लक्षेषु व्यतिक्रान्तेष्वजायत ।।१११ ।। निर्वाणकल्याणमुपेत्य तत्र गीर्वाणनाथास्त्रिदशैः समेताः । शरीरसंस्कारपुरःसरं श्रीनमेरकार्षुः सपरिच्छदस्य ।। ११२ ।। सप्तमं पर्व एकादशः सर्गः श्रीनमिनाथ चरितम् । नमिजिनस्य निर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि नमिनाथचरितवर्णनो नामैकादशः सर्गः । ।। २७१ ॥ १त सहस्राः
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy