________________
त्रिषष्टिशलाकापुरुषचरिते IR७२॥
सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रिचरितम् ।
द्वादशः सर्गः ।
श्रीहरिषेणचक्रिचरितम् । इतश्च विरहत्येव नमिनाम्नि जिनेश्वरे । हरिषेणोऽभवच्चक्री चरितं तस्य कीर्त्यते ।। १ ।। इहैव भरतेऽनन्ततीर्थे नरपुरे पुरे । नराभिरामो नृपतिरभिरामो नरेष्वभूत् ॥२॥ क्रमेण च भवोद्विग्नः परिव्रज्यां प्रपद्य सः । सनत्कुमारकल्पेऽभूदमरः परमर्द्धिकः ॥ ३ ॥ इतश्च पैञ्चालदेशाकल्पः स्वःकल्पमृद्धिभिः । परैरकम्प्यं काम्पील्यमित्यस्ति प्रवरं पुरम् ।। ४ ।। तस्मिन्महाहरि म राजा हरिरिवौजसा । इक्ष्वाकुवंशतिलको बभूव भुवि विश्रुतः ।। ५ ।। तस्याऽभून्महिषी नाम्ना मेरा स्मेराम्बुजानना । शीलालङ्करणा रूपेणाऽलङ्कृतमहीतला ॥६॥ नराभिरामजीवोऽपि तस्याः कुक्षाववातरत् । चतुर्दशमहास्वप्नाख्यातश्चक्रधरर्द्धिकः ॥७॥ सा कालेऽसूत हेमाभं हरिषेणाभिधं सुतम् । पञ्चदशधनूच्छायो युवराज्येऽभ्यषेचि सः ॥८॥ पैतृकं शासतस्तस्य राज्यं प्राज्यभुजौजसः । अन्येधुरस्त्रशालायां चक्ररत्नमजायत ॥ ९ ॥ पुरोधोवर्धकिगृहिसेनानीप्रभृतीन्यपि । तस्य त्रयोदशाऽन्यानि क्रमाद्रत्नानि जज्ञिरे ॥ १० ॥ चक्रमार्गानुगः प्राच्यां गत्वा तीर्थे स मागधे । मागधतीर्थकुमारं दिग्जयादावसाधयत् ।। ११ ।। दक्षिणस्यामथोपेत्य दक्षिणाम्भोधिवर्तिनम । वरदामपतिं देवं वशीचक्रे महाभजः ॥ १२ ॥ १ पञ्चालदेशस्याकल्पो भूषणम् । २ स्वर्गतुल्यम् । ३ स्वर्णकान्तिम् ।
हरिषेणस्योत्पत्तिः ।
॥२७२ ।।