________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व द्वादशः सर्गः श्रीहरिषेणचक्रि
।।२७३॥
चरितम् ।
उपेत्य दिशि वारुण्यां प्रभासाधिपतिं सुरम् । सोऽसाधयदखण्डौजा बिडौजा इव भूस्थितः ।। १३ ।। महानदीमेत्य सिन्धुं दिक्सिन्धुरपराक्रमः । क्रमाद्वशंवदीचक्रे चक्रभृद्दशमोऽथ सः ॥ १४ ॥ ततोऽभिसृत्य वैताढ्याद्रिकुमारकम् । विधिना साधयामास स दिक्साधनपण्डितः ।। १५ ।। कृतमालानरं चाऽथ कृती स्वयमसाधयत् । पश्चाच्च सेनापतिना पश्चिमं सिन्धुनिष्कुटम् ।। १६ ।। वामान्यकुम्भविन्यस्तमणिरत्नेन कुम्भिना । सेनान्युद्घाटितद्वारां तमिस्रां प्रविवेश सः ॥ १७ ॥ काकिणीरत्नलिखितमण्डलोद्योतितान्तराम् । पद्ययोत्तीर्य चोन्मग्नानिमग्ने तामलङ्घयत् ।। १८ ॥ स्वयमुद्घाटितोदीच्यद्वारा तस्या विनिर्ययौ । आपातसज्ञान्म्लेच्छांस्तान् स्वच्छन्दानजयच्च सः ।। १९ ॥ अज्ञापयच्च सेनान्या सिन्धोः पश्चिमनिष्कुटम् । गत्वा च क्षुद्रहिमवत्कुमारमजयत् स्वयम् ।। २० ।। काकिण्या ऋषभकूटे स्वनामाऽऽलिख्य सञ्चलन् । जगाम साधयद्गाझं सेनान्या पूर्वनिष्कुटम् ।।२१ ।। विद्याधरैर्दत्तदण्ड उभयश्रेणिवर्तिभिः । स्वयं चासाधयामास नाट्यमालमथाऽपरम् ।। २२ ।। सेनान्योद्घाटितां खण्डप्रपातां प्राविशद् गुहाम् । चक्रानुगश्चक्रवर्ती निर्जगाम च पूर्ववत् ।। २३ ।। सेनान्या साधयामास गाङ्गं प्राचीननिष्कुटम् । स्वयमावासयामास गङ्गायां वसुधाधिपः ।। २४ ।। नवाऽपि निधयो गङ्गामुखमागधवासिनः । सिध्यन्ति स्म स्वयं तस्योत्कृष्टपुण्यानुभावतः ।।२५ ।। सम्पूर्णचक्रवर्तिश्रीर्जितषट्खण्डभारतः । अथाऽऽजगाम काम्पील्यपुरं स श्रीपुरन्दरः ।। २६ ।। तस्य चक्रित्वाभिषेकश्चक्रे देवैर्नरैरपि । महोत्सवः पुरे चाऽऽसीद्यावद् द्वादश वत्सरान् ।। २७ ॥ १ सिन्धुरो गजः । २ वामान्यं दक्षिणम् । ३ पद्यया सेतुना ।
हरिषेणचक्रिकृत
षट्खण्डविजयः।
।।२७३ ।।