Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 293
________________ त्रिषष्टिशलाकापुरुषचरिते ।२४६॥ सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । मुनिराख्यदवश्यं ते भोक्तव्या बलसम्पदः । तदन्ते त्यक्तसङ्गः सन् प्रव्रज्य शिवमाप्स्यसि ।।१४ ॥ नत्वा बिभीषणोऽपृच्छत् केन प्राग्जन्मकर्मणा । जहार रावणः सीतां लक्ष्मणस्तं न्यहन् युधि ? ।। १५ ॥ सुग्रीवो भामण्डलश्च तथेमौ लवणाङ्कुशौ । अहं च कर्मणा केनाऽत्यन्तरक्ता रघूद्वहे ? ॥ १६ ।। भगवानाचचक्षेऽथ भरतार्धेऽत्र दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवद्वणिक् ।। १७ ।। धनदत्तवसुदत्तौ सुनन्दाकुक्षिजौ सुतौ । तस्याऽभूतां तयोर्मित्रं याज्ञवल्क्योऽभवद् द्विजः ।। १८ ।। नाम्ना सागरदत्तश्च पुरे तस्मिन्नभूद्वणिक् । तस्य सूनुर्गुणधरः कन्या गुणवती पुनः ।। १९ ।। दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा ।। २० ।। श्रीकान्तनाम्ने चाऽऽढ्याय तत्रत्यायाऽर्थलोभतः । ददौ गुणवती छन्नं माता रत्नप्रभा पुनः ।। २१ ॥ याज्ञवल्क्यस्तु तज्ज्ञात्वा नयदत्तात्मजन्मनोः । स्वमित्रयोः समाचख्यावसहो मित्रवञ्चने ॥ २२ ॥ वसुदत्तस्ततो गत्वा श्रीकान्तमवधीन्निशि । श्रीकान्तेनाऽपि खड्गेन वसुदत्तो निपातितः ॥ २३ ॥ विन्ध्याटव्यामभूतां तावुभावपि कुरङ्गको । गुणवत्यप्यनूढैव मृत्वा तत्राऽभवन्मृगी ॥२४ ।। तस्याः कृते च तत्राऽपि युद्ध्वा पञ्चत्वमीयतुः । मिथो वैरेण तावेवं भूयांसं प्रेमतुर्भवम् ।।२५ ॥ तदानीं धनदत्तोऽपि स्वभ्रातृवधपीडितः । निर्धर्मोऽटन्निशि साधून् ददर्श क्षुधितोऽन्यदा ॥२६ ॥ ययाचे भोजनं तेभ्यस्तेष्वेको मुनिरब्रवीत् । दिवाऽपि न हि साधूनां भक्तपानादिसङ्ग्रहः ॥२७॥ तवाऽपि नोचितं रात्रौ भोक्तुं पातुं च भद्रक! । को वेत्ति जीवसंसक्तिमन्नादौ तमसीदृशे ? ॥२८ ।। रामादयो ज्ञानिनं स्वपूर्वभवान पृच्छन्ति, गुरुस्तानह। ॥२४६ ।।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324