Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 296
________________ त्रिषष्टिशलाकापुरुषचरिते IR४९।। सप्तमं पर्व दशमः सर्गः रामलक्ष्मणरावणचरितम् । श्रुत्वा विपरिणम्याऽऽशु लोकः सर्वोऽपि तं मुनिम् । विप्लावयितुमारेभे कलङ्कोद्घोषपूर्वकम् ॥ ५७ ॥ न मे यावत्कलङ्कोऽयमुत्तरिष्यति सर्वथा । न तावत्पारयिष्यामीत्यभिजग्राह सोऽप्यषिः ।। ५८ ।। ततश्च देवतारोषाच्छूनं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा सा पित्रा भसिता भृशम् ।। ५९ ॥ रोषात् पितुश्च सा भीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्युच्चैःस्वरमब्रवीत् ।।६० ॥ निर्दोषः सर्वथाऽसि त्वं दोषोऽलीकोऽयमेव ते । मयैवाऽऽरोपितः स्वामिस्तितिक्षस्व क्षमानिधे! ॥६१ ॥ श्रुत्वेति तद्वचो लोको भूयोऽप्यानर्च तं मुनिम् । उल्लाघाऽभूद्वेगवती तदादि श्राविका च सा ।। ६२ ।। तां च रूपवतीं दृष्ट्वा ययाचे शम्भुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीभूतिः प्रत्युवाच तम् ।। ३ ।। शम्भुर्निहत्य श्रीभूतिं बुभुजे तां बलादपि । भवान्तरे ते वधाय भूयासमिति साऽशपत् ।। ६४ ।। शम्भुनाऽपि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रवव्राजाऽथ पूर्णायुर्ब्रह्मलोकमुपाययौ ।। ६५ ।। ततश्च्युत्वा शम्भुजीवरक्षोनाथस्य मृत्यवे । निदानवशतो जज्ञे सीतेयं जनकात्मजा ।। ६६ ।। सुदर्शनमुनेस्तस्याऽलीकदोषाधिरोपणात् । अस्याः कलोऽलीकोऽयं लोकेनेहाऽधिरोपितः ।। ६७ ॥ भवं भ्रान्त्वा शम्भुजीवोऽप्युदपादि द्विजन्मः । कुशध्वजस्य सावित्र्यां प्रभासो नाम नन्दनः ।। ६८ ॥ स प्रवव्राज विजयसेनर्षेरन्तिकेऽन्यदा । परमं च तपस्तेपे सहमानः परीषहान् ।। ६९ ॥ सम्मेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राक्षीदिन्द्रवत्परमर्द्धिकम् ।। ७० ।। तपसाऽनेन भूयासमीदृगृद्धिरिति व्यधात् । स निदानं विपद्याऽथोत्पेदे कल्पे तृतीयके ।। ७१ ।। १ श्यामम् । २ निर्मला । राम-लक्ष्मण बिभीषणविशाल्याभामण्डलादीनां पूर्वभवाः । ।। २४९ ।।

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324