Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 286
________________ त्रिषष्टिशलाकापुरुषचरिते २३९॥ पुत्रयोर्विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरं ययौ ।। १६१ ॥ सदृक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ । जहषुः स्वामिहर्षेण भूचराः खेचराश्च ते ।। १६२ ।। भामण्डलनृपाख्यातो वज्रजङ्घनृपोऽपि हि । ननाम रामसौमित्री विनीतश्चिरपत्तिवत् ।। १६३ ।। रामस्तमाललापैवं भामण्डलसमोऽसि मे । पुत्रौ योऽवर्धयस्त्वं मेऽनैषीः काष्ठामिमां च यः ।। १६४ ।। इत्युक्त्वा पुष्पकारूढः पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत्पुरीम् ॥ १६५ ।। उदग्रीवपाणिभिः पौरै राजमार्गे च विस्मितैः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमगृहे ।। १६६ ।। तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥ १६७ ॥ अथ रामं सुमित्राभूः कपीश्वरबिभीषणौ । हनूमानङ्गदाद्याश्च सम्भूयैवं व्यजिज्ञपन् ।। १६८ ।। परदेशे स्थिता देवी त्वया विरहिताऽधुना । विनाऽमूभ्यां कुमाराभ्यामतिकष्टेन तिष्ठति ॥१६९ ।। यद्यादिशसि तत्स्वामिन्नानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पतिपुत्रोज्झिता सती ॥ १७०॥ किञ्चिद्रामो विचिन्त्योचे जानक्यानीयते कथम् ? । लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् ।। १७१ ।। जानेऽहं यत्सती सीता साऽपि स्वं वेत्ति निर्मलम् । दिव्यं दातुमथाऽदातुं तद् द्वयोरपि नाऽस्ति भीः ॥१७२ ॥ प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः ।। १७३ ॥ एवमस्त्वित्युदित्वा ते पुर्या बहिरकारयन् । विशालान्मण्डपानुच्चैस्तदन्तमञ्चधोरणीः ।।१७४ ।। तेषु चोपाविशन् भूपाः पौरामात्यादयोऽपि च । ते बिभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥ १७५ ॥ १दिशाम् । २ ऊर्ध्वा ग्रीवा पार्ट्जयश्च येषां तैः । ३ मञ्चश्रेणीः । सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । SAHARASHTRA सीतायाः कलङ्कनिवारणाय दिव्य पञ्चकनिवेदनम् । SASARALA ॥२३९ ॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324