Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 277
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२३०॥ | सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् । श्रुत्वैवं सह तेनैव सेनान्या खेचरैश्च तैः । रामोऽगाद्व्योमयानेन तत्राऽरण्येऽतिदारुणे ।। २९ ।। प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् ।। ३० ।। मन्ये व्याघ्रण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धेति सुचिरं दध्यौ रामोऽतिदुःखितः ।। ३१ ।। सीताप्राप्सौ विमुक्ताशो निवृत्य स्वपुरी ययौ । पौरैः सीतागुणग्राहं निन्द्यमानो मुहर्मुहुः ।। ३२ ।। प्रेतकार्य च सीतायाः पद्मोऽकार्षीदुदश्रुदृक् । पश्यन् सीतामयमिव सर्व शून्यमिवाऽथ वा ॥३३ ।। सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च । क्वाऽपि तिष्ठति सीतेति तथाऽपि न विवेद सः ।। ३४ ।। इतश्च तत्र वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कुशमप्यथ ।। ३५ ।। वज्रजङ्घस्तयोश्चक्रे जन्मनाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः ।। ३६ ॥ धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौ । क्रमेण ववृधाते तावश्विनाविव भूचरौ ।। ३७ ।। कलाग्रहणयोग्यौ तावजायेतां महाभुजौ । कलभाविव शिक्षा) नरेन्द्रनयनोत्सवौ ।। ३८ ॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्रकः । विद्याबलर्द्धिसम्पन्नः कलागमविचक्षणः ।। ३९ ।। त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु चङ्क्रमैः । आकाशगामी भिक्षार्थं वैदेहीगृहमाययौ ॥ ४० ॥ ॥युग्मम् ।। वैदेह्या भक्तपानाद्यैः श्रद्धया स तु भोजितः । तथा सुखविहारं च तथा पृष्टस्तदाऽवदत् ।। ४१ ।। १ भक्षिता । २ सीताया गुणान् गृहीत्वा । ३ जन्मनो नाम्नश्च महोत्सवौ । ४ लीलया चपलौ । ५ कलास्वागमेषु शास्त्रेषु च विचक्षणः । ६ गमनैः । | सीतायाः पुण्डरीकपुरे वासः, रामस्य विरहदाहः, लवणाङ्कुशयोर्जन्म। ।।२३० ।।

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324