________________
त्रिषष्टिशलाकापुरुषचरिते ॥२३०॥
| सप्तमं पर्व नवमः सर्गः रामलक्ष्मणरावणचरितम् ।
श्रुत्वैवं सह तेनैव सेनान्या खेचरैश्च तैः । रामोऽगाद्व्योमयानेन तत्राऽरण्येऽतिदारुणे ।। २९ ।। प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् ।। ३० ।। मन्ये व्याघ्रण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धेति सुचिरं दध्यौ रामोऽतिदुःखितः ।। ३१ ।। सीताप्राप्सौ विमुक्ताशो निवृत्य स्वपुरी ययौ । पौरैः सीतागुणग्राहं निन्द्यमानो मुहर्मुहुः ।। ३२ ।। प्रेतकार्य च सीतायाः पद्मोऽकार्षीदुदश्रुदृक् । पश्यन् सीतामयमिव सर्व शून्यमिवाऽथ वा ॥३३ ।। सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च । क्वाऽपि तिष्ठति सीतेति तथाऽपि न विवेद सः ।। ३४ ।। इतश्च तत्र वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कुशमप्यथ ।। ३५ ।। वज्रजङ्घस्तयोश्चक्रे जन्मनाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः ।। ३६ ॥ धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौ । क्रमेण ववृधाते तावश्विनाविव भूचरौ ।। ३७ ।। कलाग्रहणयोग्यौ तावजायेतां महाभुजौ । कलभाविव शिक्षा) नरेन्द्रनयनोत्सवौ ।। ३८ ॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्रकः । विद्याबलर्द्धिसम्पन्नः कलागमविचक्षणः ।। ३९ ।। त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु चङ्क्रमैः । आकाशगामी भिक्षार्थं वैदेहीगृहमाययौ ॥ ४० ॥
॥युग्मम् ।। वैदेह्या भक्तपानाद्यैः श्रद्धया स तु भोजितः । तथा सुखविहारं च तथा पृष्टस्तदाऽवदत् ।। ४१ ।। १ भक्षिता । २ सीताया गुणान् गृहीत्वा । ३ जन्मनो नाम्नश्च महोत्सवौ । ४ लीलया चपलौ । ५ कलास्वागमेषु शास्त्रेषु च विचक्षणः । ६ गमनैः ।
| सीतायाः पुण्डरीकपुरे वासः, रामस्य विरहदाहः, लवणाङ्कुशयोर्जन्म।
।।२३० ।।