________________
त्रिषष्टिशलाकापुरुषचरिते २२९॥
| सप्तमं पर्व
नवमः | सर्गः रामलक्ष्मणरावणचरितम् ।
मम भामण्डलस्येव भ्रातुरेहि तदोकसि । स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् ।। १४ ।। रामोऽपि लोकवादेन त्वामत्याक्षीन्न तु स्वयम् । पश्चात्तापेन सोऽप्यद्य मन्ये त्वमिव कष्टभाक् ॥ १५ ॥ गवेषयिष्यत्वचिरात्त्वां सोऽपि विरहातुरः । चक्रवाक इवैकाकी ताम्यन् दशरथात्मजः ।। १६ ॥ इत्युक्ता निर्षिकारेण तेनामेत्यभिधायिनी । सीता रुरोह शिबिकां सद्यस्तदुपनायिताम् ।। १७ ।। पुण्डरीकपुरं चाऽऽगान्मिथिलामपरामिव । अहर्निशं धर्मशीला चाऽस्थात्तद्दर्शिते गृहे ।। १८ ।। इतश्च रामसेनानीर्गत्वा रामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यक्तवानस्मि जानकीम् ।। १९ ।। मुहुर्मुहुः सा मूञ्छित्वा चेतित्वा च मुहुर्मुहुः । कथञ्चिद् धैर्यमालम्ब्य वाचिकं चैवमादिशत् ।। २० ।। नीतिशास्त्रे स्मृतौ देशे कस्मिन्नाचार ईदृशः । एकपक्षोक्तदोषेण पक्षस्याऽन्यस्य शिक्षणम् ? ।। २१ ।। सदा विमृश्य कर्तुस्तेऽप्यविमृश्य विधायिता । मन्ये मद्भाग्यदोषेण निर्दोषस्त्वं सदाऽप्यसि ।। २२ ।। खलोक्त्याऽहं यथा त्यक्ता निर्दोषाऽपि त्वया प्रभो ! । तथा मिथ्यादृशां वाचा मा त्याक्षीधर्ममार्हतम् ।।२३ ।। इत्युक्त्वा मूञ्छिता सीता पतित्वोत्थाय चाऽब्रवीत् । मया विना कथं रामो जीविष्यति ? हताऽस्मि हा !||२४ ॥ इत्याकर्ण्य वचो रामः पपात भुवि मूर्छया । सम्भ्रमाल्लक्ष्मणेनैत्य सिषिचे चन्दनाम्भसा ।। २५ ।। उत्थाय विललापैवं क्व सा सीता महासती ? । सदा खलानां लोकानां वचसा ही मयोज्झिता ॥ २६ ॥ अथोचे लक्ष्मणः स्वामिस्तस्मिन्नद्याऽपि सा वने । महासती स्वप्रभावत्राता नूनं भविष्यति ।। २७ ।। गत्वा गवेषयित्वा च स्वयमानीयतां प्रभो ! । सीता देवी त्वद्विरहान्न हि यावद्विपद्यते ।। २८ ।। १ आमेत्यङ्गीकारेऽव्ययम् । २ दण्डः । ३ हीति खेदेऽव्ययम् ।
सीतायाः पुण्डरीकपुरे वासः ।
॥२२९ ।।