________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२२८ ॥
नवमः सर्गः ।
अथ सीता भयोद्भ्रान्ता बभ्रामेतस्ततो वने । आत्मानमेव निन्दन्ती पूर्वदुष्कर्मदूषितम् ॥ १ ॥ भूयो भूयश्च रुदती स्खलन्ती च पदे पदे । गच्छन्ती पुरतोऽपश्यन्महत् सैन्यं समापतत् ॥ २ ॥ मृत्युजीवितयोस्तुल्याशया प्रेक्ष्याऽपि तद् बलम् । सीता तस्थावभीतैव नमस्कारपरायणा ।। ३ ।। तां दृष्ट्वा बिभयाञ्चक्रुः सैनिकाः प्रत्युताऽपि ते । का नाम दिव्यरूपेयं भूस्थितेत्यभिभाषिणः ।। ४ ।। सीताया रुदितं श्रुत्वा स्वैरवित्तच्चमूनृपः । इयं महासती काऽपि गुर्विणी चेत्यवोचत ।। ५ ।। कृपालुः स महीपाल उपसीतं जगाम च । सीताऽप्याशङ्किता तस्य स्वं नेपथ्यमढौकयत् ॥ ६ ॥ राजाऽप्येवमभाषिष्ट मा भैषीस्त्वं मनागपि । तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे स्वसः ! ॥ ७ ॥ का त्वं ? कस्त्वामिहाऽत्याक्षीन्निर्घृणेभ्योऽपि निर्घृणः ! । आख्याहि मा स्म शङ्किष्ठास्त्वत्कष्टेनाऽस्मि कष्टितः ॥ ८ ॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याऽब्रवीदिति । गजवाहनराजस्य बन्धुदेव्याश्च नन्दनः ।। ९ ।। नृपतिर्वज्रजङ्घोऽयं पुण्डरीकपुरेश्वरः । महार्हतो महासत्त्वः परनारीसहोदरः ।। १० ।। ।। युग्मम् ।। गजान् ग्रहीतुमत्रैत्य कृतार्थीभूय च व्रजन् । त्वदुःखदुःखितोऽत्राऽऽगाद् दुःखमाख्याहि तन्निजम् ।। ११ ।। विश्वस्य सीताऽप्याचख्यौ स्ववृत्तान्तमशेषतः । रुदती रोदयन्ती तौ कृपालू राजमन्त्रिणौ ॥ १२ ॥ निर्व्याजो व्याजहारैवं राजा धर्मस्वसाऽसि मे । एकं धर्मं प्रपन्ना हि सर्वे स्युर्बन्धवो मिथः ॥ १३ ॥
१ आगच्छत् । २ स्वरं वेत्तीति स्वरवित् स चाऽसौ तत्सेनानृपः । ३ निर्दयेभ्यः । ४ महार्हद्भक्तः उत्तमश्रावक इति यावत् । ५ विश्वासं कृत्वा । ६ निष्कपटः ।
सप्तमं पर्व
नवमः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
सीताया वज्रजह
नृपमिलापः ।
।। २२८ ।।